Book Title: Bhavsthiti Part 01
Author(s): Virshekharvijay
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 34
________________ भवस्थितिः ] स्वोपश-प्रेमप्रभावृत्तिपरिकलिता मवस्थितिः [ ११ अथ सहस्त्रारप्रमुखाणा सुराणामुत्कृष्टभवस्थिति कथयति"एत्तो" इत्यादि, 'क्रमात्' इति पदं पूर्वतोऽनुवर्तते, ततः 'एतस्मात्' महाशुक्रसुरस्योदितत्वात्तत ऊवं सहस्रारप्रमुखाणां सुराणाम् उत्कृष्टभवस्थितिः क्रमश: 'एकैका-ऽधिकाः'एक केन सागरो. पमेणा-ऽधिकाः वृद्धि नीताः सागरोपमाः 'ज्ञातव्या' यत्तदोनित्यसापेक्षत्वादने यावच्छब्दस्य वक्ष्यमाणत्वात्तावज्ज्ञातव्या यावदेकत्रिशदुदधयः' यावदेत्रिंशत्सागरोपमारिण 'उपरितनवेयकस्य' सर्वग्रेवेयकाणासुपरि स्थितस्याऽऽदित्यसंज्ञकस्य नवमवेयकसुरस्येति । अयम्भावः-महाशुक्र सुरस्य सप्तदशसागरोपमेष्वेकस्य सागरोपमस्य प्रक्षेपे-ऽष्टादश (१८) सागरोपमाणि सहस्रारसुरस्य भवति, अनया रीत्या नवमवेयकसुरं यावन्नेतव्यम तद्यथा-प्रानत. सुरस्यकोनविंशतिः (१६) सागरोपमाणि, प्राणतसुरस्य विशतिः (२०) सागरोपमाणि, पारणसुरस्यैकविंशतिः (२१) सागरोपमाणि, अच्युतसुरस्य द्वाविंशतिः (२२) सागरोपमाणि, सुदर्शनसंज्ञकप्रथमवेयकसुरस्य त्रयोविंशतिः (२३) सागरोपमाणि, सुप्रतिबद्धाख्यद्वितीयग्रेवेयकसुरस्य चतुर्विशतिः (२५) सागरोपमाणि. मनोरमनामतृतीयप्रैवेयकसुरस्य पञ्चविंशतिः (२५) सागरोपमाणि,सर्वभद्राऽभिधानचतुर्थग्रेवेयकसुरस्य षड्विशति(२६)सागरोपमाणि,विशालाऽभिधपञ्चमवेयकसुरस्य सप्तविंशतिः (२७) सागरोपमाणि, सुमनसाख्यषष्ठप्रैवेयकसुरस्या-ऽष्टाविंशतिः । (२८) सागरोपमाणि, सौमनसाख्यसप्तमग्रंवेयकसुरस्यकोनविंशत् (२९) सागरोपमाणि, प्रीतकरसंज्ञकाष्टमणैवेयकसुरस्य त्रिशत् (२०) सागरोपमाणि, प्रादित्यनामनवमवेयकसुरस्यकत्रिंशत् (३१) सागरोपमाण्युत्कृष्टभवस्थितिर्भवति । यदुक्तं वृहत्संग्रहण्याम्...................सुक्को, तदुवरि इक्किक्कमारोवे ।।१२॥" इति

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68