Book Title: Bhavsthiti Part 01
Author(s): Virshekharvijay
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 53
________________ ३०] मुनिश्रीवीरशेखरविजयसूत्रिता [ग्रन्थसमाप्त्वा साम्प्रतं प्रकृतग्रन्थसमाप्तिसूचिको ग्रन्थोपसंहारात्मिकामेकां पथ्यार्यामाहसिरिवीरसेहरविजय-मुगिणा सिरिपेमसूरिसंणिज्झे । देवगुरुपहावाओ, भवट्ठिई सुत्तिआ एसा ॥१६॥ (प्रे०) "सिरि०" इत्यादि, 'श्रीप्रेमसूरिसान्निध्ये' श्रिया= रत्नत्रयीप्रमुखलक्ष्म्या सहिताश्च ते प्रेमसूरयः प्रगुरुगुरवो गच्छा धिपाः श्रीप्रेमसूरयः, तेषां सान्निध्ये श्रीप्रेमसूरिसान्निध्ये एता. बता-ऽस्माकं प्रपितामहगुरुपादानां पुण्यनामधेयानामाचार्यभगवतां श्रीमद्विजयप्रेमसूरीश्वराणां परमपवित्रसान्निध्यवर्तिना श्रीवीरशेखर. विजयमुनिना' श्रिया=ज्ञानादिलक्ष्या युतश्चासौ वीरशेखर विजयः =तत्संज्ञकस्तच्चरणोपासकः क्षुल्लकः साधुः श्रीवीरशेखरविजयः स चासौ मुनि:-श्रमणः श्रीवोरशेखर विजयमुनिः,तेन श्रीवीर शेखरविजयमुनिना 'देवगुरुप्रभावात् देवश्चाऽहत्सिद्धरूपो गुरुश्चाऽऽचार्यादिस्वरूपो गणधरादिश्रीमद्विजयप्रेमसूरीश्वरप्रभृतिस्वगुर्वव. सानो वा देवगुरू तयोः प्रभावात-माहात्म्यात देवगुरुप्रभावात= देवगुर्वनुग्रहात 'एषा' अनन्तरमणिता भवस्थितिः प्राग्वणितार्था 'सूत्रिता' रचिता ॥१६॥ इदानीं ग्रन्थकारः स्वस्य छाद्मस्थ्येन मन्दमत्यादिना च किमपि स्खलनं स्यात्तद् दूरीकर्त मनाः संविज्ञेषु बहुश्रुतेषु बहुमानगर्मा विज्ञप्तिमेकया गाथया वितन्वन्ना-ऽहमंदमइअणुवओगा-इहेउणा किं पि आगमविरुद्ध । एत्थ सिआ करिअकिवं,मइ तं सोहन्तु सुअरिणहिणो॥१७॥ ॥ इति मूल ग्रन्थः समाप्तः ।।

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68