Book Title: Bhagwati Sutra Vyakhyan Part 03 04
Author(s): Jawaharlal Aacharya
Publisher: Jawahar Vidyapith

View full book text
Previous | Next

Page 284
________________ से परायण । जस्स णं वीरिय वज्झाइं कम्माइं जाव - उदिण्णाइं णो उवसंताइं भवंति से णं पुरिसे परायिज्जइ, से तेणद्वेणं गोयमा ! एवं वुच्चइ - सवीरिए परायिणइ, अवीरिए परायिज्जइ । संस्कृत - छाया प्रश्न -पुरुषो भगवन्! कच्छे वा यावत् वनविदुर्गे वा तृणानि उत्सर्य्य उत्सर्य्यं अग्निकायं निसृजाति, तावच्च स भगवन् ! पुरुषः कतिक्रियः ? उत्तर- गौतम! स्यात् त्रिक्रियः स्यात् चतुष्क्रियः स्यात् पञ्चक्रियः । प्रश्न - तत् केनार्थेन ? उत्तर-गौतम! यो भव्यउच्छ्रयणतया तिसृभिः, उच्छ्रयणतयाऽपि, निसर्जनतयाऽपि नो दहनतया चतुसृभिः, यो भव्य उच्छ्रयणतयाऽपि, निसर्जनतयाऽपि तावच्च स पुरुषः कायिक्या, यावत् - पञ्चभिः क्रियाभिः स्पृष्टः । तत् तेनार्थेन गौतम! प्रश्न - पुरुषो भगवन्! कच्छे वा, यावत् वनविदुर्गे वा मृगवृत्तिकः, मृगसंकल्पः मृगप्रणिधानः, मृगवधाय गत्वा एते मृगाः' इति कृत्वा अन्यतरस्य मृगस्य वधाय इषुं निसृजति, ततो भगवन्! स पुरुषः कतिक्रियः ? उत्तर- गौतम! स्यात् त्रिक्रियः स्यात् चतुष्क्रियः स्यात् प०चक्रियः । प्रश्न-तत् केनार्थेन ? उत्तर - यो भव्यो निसर्जनतया, नो विध्वंसनतयाऽपि, नो मारणतयाऽपि तिसृभिः, यो भव्यो निसर्जनतयाऽपि, विध्वंसनतयाऽपि, नो मारणतया चतुसृभिः, यो भव्यो निसर्जन तयाऽपि, विध्वंसनतयाऽपि मारणतयाऽपि तावच्च सः पुरुषो यावत्-पञ्चभिः क्रियाभिः स्पृष्टः । तत् तेनार्थेन गौतम ! स्यात् त्रिक्रियः, स्यात् चतुष्क्रियः स्यात् पञ्चक्रियः । प्रश्न -पुरुषो भगवन् ! कच्छे वा, यावत् अन्यतरस्य वधाय आयत कर्णायतम् इषुम् आयम्य तिष्ठेत्, अन्यश्च स पुरुषो मार्गतः आगत्य स्वकपाणिना, असिना शीर्षं छिन्द्यात्, स च इषुः तया चवे पूर्वोऽऽय मनतया तं मृगं विध्येत्, स भगवन्! पुरुषः किं मृग वैरेण स्पृष्टः ? पुरुषवैरेण स्पृष्टः ? उत्तर-गौतम! यो मृगं मारयति, स मृग वैरेण स्पृष्टः, यः पुरुषं मारयति स पुरुष वैरेण स्पृष्टः । प्रश्न- तत् केनार्थेन भगवन्! एवमुच्यते यावत् ' स पुरुषवैरेण स्पृष्टः ।' उत्तर- तद् नूनं गौतम! क्रियमाणं कृतम्, संधीयमानं संधितम्, निर्वृत्यमानं निर्वृत्तितम्, निसृज्यमानं निसृष्टम् इति वक्तव्यं स्यात् । भगवती सूत्र व्याख्यान २७१ 7

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290