Book Title: Avashyak Niryukti Part 01
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 16
________________ आवश्यक निर्युक्तिः श्रीतिलका चार्यलघुवृत्तिः ****** तद्यदावश्यकमहं विवरितुं मतिं व्यधाम् । गङ्गां तरीतुमारब्धस्तद्दोष्णैकेन कृष्णवत् ।।१०।। महाशास्त्रस्य चामुष्य महाकविविनिर्मिते । गम्भीरार्थे महत्यो स्तश्चर्णिर्वृत्तिश्च यद्यपि ।। ११ । । तथाऽप्यत्यल्पधीहेतोरल्पधीरप्यहं पुनः । रचयिष्याम्यमूं वृत्तिमुत्तानार्थं लघीयसीम् ।।१२।। ततोऽत्र यदहं कुर्वे तत्सर्वं गुरुभक्तिजम् । जानन्तु माऽवजानन्तु सन्तः सुमनसो मयि ।।१३।। तथाहि - सञ्जातेऽवसरेऽधुना श्रुतसुधाधाराकिरो मद्गिरः, सद्यः पल्लवयन्तु भव्यहृदयारामे प्रबोधद्रुमम् । लब्ध्वाऽत्यद्भुतवासनाढ्यसुमनीभावं सदालिप्रियम्, यस्तैस्तैः फलितः फलैरविरलैः स्वर्गापवर्गादिभिः ।।१४।। इहायं शास्त्रवेधसां सुमेधसां शास्त्रसन्दर्भारम्भसंरम्भविधिः । यथा - सर्वाण्यपि शास्त्राणि मङ्गलाभिधेयसम्बन्धप्रयोजनप्रतिपादनपूर्वाण्येव प्ररूप्यन्ते, इदं च शास्त्रमर्हत्प्रणीतार्थत्वात्सकलमपि मङ्गलरूपमेव । तथाऽप्यभिनवविनेयोत्साहाय प्रथमगाथया ज्ञानपञ्चकाभिधाभिधानरूपं मङ्गलमाह - आभिणिबोहियनाणं सुयनाणं चेव ओहिनाणं च । तह मणपज्जवनाणं केवलनाणं च पंचमयं । । १ । । व्याख्या - अर्थाभिमुखो नियतो बोधो मतिरूपोऽभिनिबोधः । स एव आभिनिबोधिकम्, स्वार्थे इकण्, आभिनिबोधिकं च तज्ज्ञानं च आ. नि. मङ्गलम् ज्ञानस्वरूपः । गाथा - १ ३

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 522