________________
आवश्यक
निर्युक्तिः
श्रीतिलका
चार्यलघुवृत्तिः
******
तद्यदावश्यकमहं विवरितुं मतिं व्यधाम् । गङ्गां तरीतुमारब्धस्तद्दोष्णैकेन कृष्णवत् ।।१०।। महाशास्त्रस्य चामुष्य महाकविविनिर्मिते । गम्भीरार्थे महत्यो स्तश्चर्णिर्वृत्तिश्च यद्यपि ।। ११ । । तथाऽप्यत्यल्पधीहेतोरल्पधीरप्यहं पुनः । रचयिष्याम्यमूं वृत्तिमुत्तानार्थं लघीयसीम् ।।१२।। ततोऽत्र यदहं कुर्वे तत्सर्वं गुरुभक्तिजम् । जानन्तु माऽवजानन्तु सन्तः सुमनसो मयि ।।१३।। तथाहि
-
सञ्जातेऽवसरेऽधुना श्रुतसुधाधाराकिरो मद्गिरः, सद्यः पल्लवयन्तु भव्यहृदयारामे प्रबोधद्रुमम् । लब्ध्वाऽत्यद्भुतवासनाढ्यसुमनीभावं सदालिप्रियम्, यस्तैस्तैः फलितः फलैरविरलैः स्वर्गापवर्गादिभिः ।।१४।।
इहायं शास्त्रवेधसां सुमेधसां शास्त्रसन्दर्भारम्भसंरम्भविधिः । यथा - सर्वाण्यपि शास्त्राणि मङ्गलाभिधेयसम्बन्धप्रयोजनप्रतिपादनपूर्वाण्येव प्ररूप्यन्ते, इदं च शास्त्रमर्हत्प्रणीतार्थत्वात्सकलमपि मङ्गलरूपमेव । तथाऽप्यभिनवविनेयोत्साहाय प्रथमगाथया ज्ञानपञ्चकाभिधाभिधानरूपं मङ्गलमाह -
आभिणिबोहियनाणं सुयनाणं चेव ओहिनाणं च । तह मणपज्जवनाणं केवलनाणं च पंचमयं । । १ । ।
व्याख्या - अर्थाभिमुखो नियतो बोधो मतिरूपोऽभिनिबोधः । स एव आभिनिबोधिकम्, स्वार्थे इकण्, आभिनिबोधिकं च तज्ज्ञानं च
आ. नि.
मङ्गलम् ज्ञानस्वरूपः ।
गाथा - १
३