________________
*********
४
आवश्यक- आभिनिबोधिकज्ञानं मतिज्ञानमित्यर्थः । तथा श्रूयत इति श्रुतम्, शब्दः सिद्धान्तो वा ताभ्यां सकाशात् ज्ञानं श्रुतज्ञानम्, 'च' निर्युक्तिः शब्दोऽनयोस्तुल्यकक्षताद्योती, तुल्यत्वं च य एव मतिज्ञानस्य स्वामी स एव श्रुतज्ञानस्यापि । ' जत्थ मइनाणं तत्थ सुयनाणं' इति वचनात्, श्रीतिलका- स्थितिकालोऽप्यनयोस्तुल्य एव । अनेकजीवापेक्षया भूतभवद्भाविरूपः सर्वोऽपि, अप्रतिपतितैकजीवापेक्षया च षट्षष्टिः सागरोपमानि चार्यलघुवृत्तिः साधिकानि । उक्तं च भाष्यकृता दोवारे विजयाईसु गयस्स तिन्नचुए अहव ताइं । अइरेगं नरभवियं नाणाजीवाण संबद्धं ।। (वि. ४३६) तथा द्वे अप्येते क्षयोपशमहेतुके सर्वद्रव्यविषये परोक्षे च, एवोऽवधारणे । एते एव द्वे ज्ञाने परोक्षे नेतराणि, तथा अवधीयते एकाग्रैर्भूयतेऽस्मिन्निति अवधिरेकाग्रता, रूपिद्रव्यमर्यादा वा ताभ्यां ज्ञानं अवधिज्ञानम्, 'च' शब्दो मतिश्रुताभ्यां साम्यार्थः, साम्यं * चानयोरिवावधेरपि समस्थित्या एकस्वामिकत्वात्, मिथ्यादृग्देवस्य सम्यग्बोधे सति ज्ञानत्रयस्यापि युगपल्लाभाच । तथा पर्यवनं पर्यवो मनसः पर्यवो मनः पर्यवः । 'उड् शब्दे' अल् प्रत्ययो अनेकार्थत्वाद्धातूनां सर्वतो मनःपुद्गलावबोधः, स एव ज्ञानं मनः पर्यवज्ञानम् । यद्वा मनसः पर्यायाः परिणामविशेषाः, पौद्गलिकवस्तुविमर्शनप्रकारास्तेषु ज्ञानं मनः पर्यायज्ञानम् । च मनुष्यक्षेत्रवर्तिसंज्ञिमनोगतद्रव्यालम्बनमेव । 'तथा' शब्दोऽवधिज्ञानसाधर्म्यार्थः, साधर्म्यं च छद्मस्थस्वामित्वपुद्गलमात्राश्रयत्वक्षायोपशमिकत्वप्रत्यक्षत्वैः । तथा केवलं अन्यज्ञाननिरपेक्षं असदृशं अनन्तं सम्पूर्णं ज्ञानं केवलज्ञानम्, 'च: ' समुच्चये । अत्राह एषां ज्ञानानां कथमेषः क्रमः ? उच्यते स्वस्यैव प्रकाशकत्वात् आदौ मतिज्ञानम्, ततः स्वपरप्रकाशकत्वात् श्रुतज्ञानम्, तदनु-मतिश्रुतानन्तरभावित्वात्प्रत्यक्षत्वाच्चावधिज्ञानम् । ततः संयतानामेव १. वृत्तिसम० ल । . 'उड् शब्दे' भ्वादि आत्म० अवते ( परि + उ + अल् पर्यवः) ।
*******
आ. नि.
मङ्गलम् ज्ञानस्वरूपः । गाथा - १
४