________________
आवश्यक- भावान्मन:पर्यवज्ञानम् । अथ क्षायिकत्वात् सर्वोत्तमं केवलज्ञानं पञ्चमकम् । अनयैव च गाथया ज्ञानपञ्चककारणभूतं * नियुक्तिः * सामायिकाद्यावश्यकषट्कं अभिधेयं सूचितम्, सम्बन्धश्च शास्त्रार्थयोर्वाच्यवाचकरूपः प्रतीत एव, प्रयोजनं च शिष्याचार्ययोरनन्तरं * श्रीतिलका- * शास्त्रार्थज्ञानज्ञापनरूपं परम्परं च द्वयोरपि महोदयावाप्तिरिति सुज्ञातमेव ॥१॥ अथ प्रथमोद्दिष्टस्याभिनिबोधिकज्ञानस्य स्वरूपं . चार्यलघुवृत्तिः *निरूप्यते । तच्च द्विधा, एकं अश्रुतनिःसृतं प्रातिभम्, औत्पत्तिक्यादि वैनयिकीरहितम् । द्वितीयं श्रुतनिःसृतं अवग्रहादि, तञ्चतुर्द्धा -
उग्गह ईहावाओ य धारणा एव हुँति चत्तारि । आभिणिबोहियनाणस्स भेयवत्थू समासेणं ।।२।।
अवग्रहः; ईहा; अवायो; धारणा; एवकारः क्रमार्थः, एवं अनेन क्रमेण भवन्ति चत्वारि, आभिनिबोधिकज्ञानस्य भेदवस्तूनि-भेदरूपाणि- भेदप्रकारा इत्यर्थः, समासेन-संक्षेपेण ।।२।। एतत्स्वरूपमेवाह -
अत्थाणं उग्गहणंमि उग्गहो तह वियारणे ईहा । ववसायंमि अवाओ धरणंमि य धारणं बिंति ।।३।।
अत्र प्राकृतत्वात्सप्तमी प्रथमाथे, अर्थानां शब्दादीनां निर्विकल्पकं ग्रहणं अवग्रहः । अर्थ[yीन्त इत्यर्थाः, अर्थ[yीन्ते गम्यन्ते परिछिद्यन्ते * इति यावत् ते च रूपादयस्तेषामर्थानां प्रथमं दर्शनानन्तरं ग्रहणमवग्रहः । आह - सामान्यविशेषात्मकानामर्थानां कथमादौ दर्शनम्, न *
आ.नि. मङ्गलम् मतिज्ञानम। गाथा-२-३
* १. अर्थ्यन्त इत्यर्थाः ..... इति पाठः ख, ल, ल प प प आदर्शषु नास्ति । इह प्रज्ञा - प्रतिभा सैव प्रातिभं बोध्यं न तु सामर्थ्ययोगजन्यं प्रातिभम् ।