________________
F****
आ.नि.
आवश्यक- ज्ञानम् ? उच्यते, ज्ञानस्य प्रबलाऽऽवरणत्वात् दर्शनस्य चाल्पावरणत्वात् । स च द्विधा, व्यञ्जनावग्रहोऽर्थावग्रहश्च, व्यज्यतेऽनेनार्थः प्रदीपेनेव * नियुक्तिः घट इति व्यञ्जनं द्रव्येन्द्रियं कदम्बपुष्पाकारादि, शब्दादिपरिणतद्रव्यसङ्घातश्च । ततो व्यञ्जनेन द्रव्येन्द्रियेण शब्दादिपरिणतद्रव्याणां * श्रीतिलका- * व्यञ्जनानामवग्रहो व्यञ्जनावग्रहः । नयनमनोवर्जेन्द्रियाणामसौ चतुर्विधो ज्ञेयः, तयोरप्राप्तकारित्वेन पुद्गलस्पर्शाभावात् । इतोऽनन्तरं * चार्यलघुवृत्तिः *शब्दादिपुद्गलसङ्गतेन द्रव्येन्द्रियेणाऽर्थानां शब्दादीनामवग्रहोऽर्थावग्रहः । तथेत्यानन्तर्ये, शब्दाद्यर्थग्रहणे सति विचारणं विमर्शः । किमयं *
*शब्दः शाङ्खः शाङ्गो वेति मतिविशेष ईहा, विशिष्टोऽवसायोऽध्यवसायो निश्चयः, माधुर्यादिगुणवत्त्वात् शाङ्घ एवाऽयं, कर्कशादिगुणवत्त्वात् * *शाङ्ग एवेत्यवधारणात्मकः प्रत्ययोऽवायः । धरणं परिच्छिन्नस्यार्थस्याऽविच्युतिस्मृतिवासनारूपं धारणा इति ब्रुवते तीर्थकरगणधरा इति
मङ्गलम्
मतिज्ञानम् । * भावः । एवं शेषेन्द्रियाणामपि स्थाणुपुरुषकुष्ठोत्पलसम्भृतकरिल्लमांससर्पोत्पलनालादी अवग्रहादयो वाच्याः, एवं मनसोऽपि स्वप्ने *
गाथा-४ * इन्द्रियव्यापाराभावे वा चिन्तयतः शब्दादिविषयाऽवग्रहादयो ज्ञेयाः । अर्थावग्रह: ईहादयश्च सर्वेन्द्रियमनःसम्भवत्वात् षोढा । सर्वे सङ्कलिता है अष्टाविंशतिर्मतिज्ञानभेदाः ।।३।। अवग्रहादीनां कालमानमाह -
उग्गहु इक्कं समयं इहावाया मुहुत्तमद्धं तु । कालमसंखं संखं च धारणा होइ नायव्वा ।।४।। * जघन्यो नैश्चयिकोऽर्थावग्रहः एक समयं परमसूक्ष्मकालरूपम्, व्यवहारतस्तु द्वावप्यर्थावग्रहव्यञ्जनावग्रही अन्तर्मुहूर्तं भवतः, ईहावायौ *
• 'तथा' शब्द आनन्तर्यार्थः । * कुष्ठः वनस्पतिविशेषः । स्थाणुपुरुषौ चक्षुर्विषयो, एवं कुष्ठादि द्वौ द्वौ क्रमेण ध्राणरसनस्पर्शनविषया बोध्याः ।
举業準準準準準準準準準準準準準準準準準
*
準準準準準準並