SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ नियुक्तिः आवश्यक- *'मुहुत्तमद्धं' अर्द्धमुहूर्त्त 'मुहुत्तमंतं तु' इति पाठान्तरात्तत्त्वतः पृथक् पृथक् द्वावप्यन्तर्मुहूर्त्तम् । 'कालमसङ्ख्यं' असवयवर्षायुषां* *पल्योपमादिजीविनाम्, 'सङ्ख्यातं च' सङ्ख्यातवर्षायुषां धारणा-वासनारूपा, 'च' शब्दादविच्युतिरूपा स्मृतिरूपा च धारणान्तर्मुहूर्तं भवति * श्रीतिलका- ज्ञातव्या ।।४।। अथ श्रोत्रेन्द्रियादीनां प्राप्ताप्राप्तविषयतामाह - चार्यलघुवृत्तिः पुढे सुणेइ सदं रूवं पुण पासई अपुढे तु । गंधं रसं च फासं च बद्धपुढे वियागरे ।।५।। * स्पृष्टं - भावेन्द्रियाख्ये श्रोत्रेन्द्रिये लग्नमात्रं तनौ रेणुवत्, तस्य घ्राणादिभ्यः पटुतरत्वात्, शृणोति गृह्णाति शब्दं के शब्दप्रायोग्यभाषापुद्गलसङ्घातम् । रूपं पुनः पश्यत्यस्पृष्टम्, तुशब्द एवकारार्थः । ततोऽस्पृष्टमेव अलग्नमेव *चक्षुषोऽप्राप्तकारित्वात् । यदि तु स्पृष्टं पश्येत्तदा स्वपक्ष्मपुटतटाञ्जनं अन्तःक्षिप्तमौषधं वा पश्येन च पश्यति । पुनः शब्दो * *विशेषणार्थः, किं विशिनष्टि ? अस्पृष्टमपि योग्यदेशावस्थितं न पुनरयोग्यदेशावस्थितम्, अन्तरितादि, अनन्तरितमपि * परमाण्वादिकं अमूर्त स्वविषयात् दूरस्थं वा न पश्यति, गन्धं रसं च स्पर्श च बद्धस्पृष्टम्, प्राकृतत्वात् व्यत्यये स्पृष्टबद्धम्, स्पृष्टं * * लग्नं ततो बद्धं आश्लिष्टं -तोयवदात्मप्रदेशैरात्मीकृतं घ्राणरसनास्पर्शेन्द्रियाणि जानन्तीति व्यागृणीयात्-ब्रूयात् । योग्यदेशावस्थितं रूपं चक्षुः * आ.नि. मङ्गलम् मतिज्ञानम् । गाथा-५ RRA
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy