SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ **** आवश्यक- पश्यतीत्युक्तम् । स चायं योग्यो देशः, चक्षुषो जघन्येनाङ्गुलसङ्घयेयभागः, अत्यासन्नस्य पक्ष्मन्यस्ताञ्जनादेरदर्शनात्, उत्कृष्टतः स्वाङ्गुलनिष्पन्नं * नियुक्तिः साधिकं योजनलक्षम् । श्रोत्रस्य द्वादशयोजनागतः शब्दः । घ्राणरसनास्पर्शनेन्द्रियाणां नव योजनागतं वस्तु, जघन्यतोऽङ्गुलासङ्घयेय-* श्रीतिलका * भागागतम् । मनसस्तु केवलज्ञानस्येव क्षेत्रतो न विषयपरिमाणम्, सर्वगत्वात् ।।५।। स्पृष्टं शृणोति शब्दमित्युक्तं तत्किं भाषकोत्सृष्टान्येव * चायलघुवृत्तिः शब्दद्रव्याणि गृह्णाति उतान्यानि तद्वासितानि मिश्राणि वेत्याशङ्कयाह - भासासमसेढीउ सदं जं सुणइ मीसयं सुणइ । वीसेढी पुण सदं सुणेइ नियमा पराघाए ।।६।। भाषकेण शब्दतयोत्सृज्यमाना शब्दपुद्गलसंहतिर्भाषा । तस्याः समश्रेणितः षट्सु दिक्षु समपतिगतः श्रोता यं शब्दं शृणोति तं *भाषकोत्सृष्टशब्दपुद्गलभावितान्तरालस्थशब्दद्रव्यमिश्रं श्रोत्रेन्द्रियेणादत्ते । विश्रेणिगतः विदिग्गतः पुन: पराघाते सति, सप्तमी तृतीयार्थे; * भाषकोत्सृष्टशब्दद्रव्यैः पराघातेन-अभिघातेन वासितमेव शब्दपुद्गलराशिं शृणोति, न पुनरुत्सृष्टं मिश्रं वा, तेषामनुश्रेणिगमनात् * * प्रतिस्खलनाऽभावाञ्च ।।६।। केन पुनर्योगेन वाग्द्रव्याणि गृह्णाति उत्सृजति वेत्याशङ्कयाह - गिन्हइ य काइएणं निसिरइ तह वाइएण जोएण । एगंतरं च गिन्हइ निसिरइ एगंतरं चेव ।।७।। गृह्णाति-आदत्ते वाग्द्रव्याणि, 'च' एवार्थे, स चाग्रे योज्यते कायिकेनैव तथेत्यनन्तरं निसृजति-मुञ्चति वाचिकेन योगेन । किमत्र है आ. नि. मङ्गलम् मतिज्ञानम् । *********** K **
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy