SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः ९ वाग्द्रव्यनिसर्गे कायव्यापारो नास्ति ? उच्यते, आत्मा येन कायव्यापारेण शब्दद्रव्याण्यादत्ते स कायिको योगः, येन तु कायसंरम्भेण तानि मुञ्चति, स वाचिकः । येन मनोद्रव्याणि मन्यते मनस्त्वेन परिणमयति स मानसः, इति कायव्यापार एव व्यवहारार्थं त्रिधोच्यते । एकान्तरं च गृह्णाति निसृजत्येकान्तरं चैव । अत्रायं भावः - एकेन समयेन अन्तरं विचालिका यत्र; प्रथमसमये वाग्द्रव्यनिसर्गस्य (अन्तरं) चरमसमये च वागद्रव्यादानस्य ( अन्तरं), तदेकान्तरम्, मध्यमसमयेषु च प्रतिसमयं शुभाशुभकर्मादाननिसर्गक्रियावत् उत्पादव्ययक्रियावत्, अङ्गुल्याकाशप्रदेशसंयोगविभागक्रियावच्च, वाग्द्रव्यादाननिसर्गरूपं युगपत् क्रियाद्वयं भवति ॥७॥ गृह्णाति कायिकेनेत्युक्तं स च काययोगः पञ्चधा, तत्केन गृह्णातीत्याह - ********* ********* तिविहंमि सरीरंमी जीवपएसा हवंति जीवस्स । जेहि उ गिन्हइ गहणं तो भासइ भासओ भासं ।।८।। त्रिविधे शरीरे जीवस्यापृथग्भूताः प्रदेशा जीवप्रदेशा भवन्ति जीवस्य, न तु शरीरवत् पृथग्भूताः । यैस्तु गृह्णाति - 'तु' शब्दो विशेषणे, न सदैवादत्ते, किन्तु आदानपरिणामे सति ग्रहणम्, शब्दद्रव्यनिवहमादत्ते, ततो भाषते भाषको भाषाम् भाषेत्यधिकमिति चेत्, न, भाष्यमाणैव हि भाषा, न पूर्वं पश्चाद्वेति ज्ञापनाय भाषाग्रहणम् ।।८।। त्रिविधे शरीर इत्युक्तं किं तत् त्रैविध्यमित्याह - ओरालियवेडव्वियआहारउ गिन्हई मुअइ भासं । सचं सच्चामोसं मोसं च असचमोसं च ।।९।। **** आ. नि. मङ्गलम् मतिज्ञानम् । गाथा-८-९ ९
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy