________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः
१०
*************
औदारिकं शरीरं विद्यते यस्य अभ्रादित्वान्मत्वर्थीयेऽवि औदारिकः, एवं वैक्रियः, आहारकश्च गृह्णाति मुञ्चति भाषां भाषात्वपरिणतद्रव्यसंहतिम् । किं रूपाम् ? सत्यां मृषां सत्यामृषां-मिश्रां असत्यामृषां-' आगच्छ देवदत्ते 'त्यादिकाम् ।।९।। भाषाव्याप्तेः
प्रश्नस्वरूपमाह -
कहिं समएहिं लोगो भासाइ निरंतरं तु होइ फुडो । लोगस्स य कयभागे कइभागो होइ भासाए । १० ।। कतिभिः समयैर्लोकश्चतुर्दशरज्ज्वात्मको भाषया शब्दपुद्गलरूपया निरन्तरं तु भवति स्पृष्टो, लोकस्य च कतिभागे कियत्प्रमाणे भागे कतिभागो भवति भाषायाः ? ।। १० ।। उत्तरमाह -
चउहिं समएहिं लोगो भासाइ निरंतरं तु होइ फुडो । लोगस्स य चरिमंते चरमंतो होइ भासाए ।। ११ । ।
चतुर्भिः समयैरिति भणनात् त्रिभिः पञ्चभिः समयैरित्यपि ज्ञेयम्, तुलामध्येग्रहणवत् । तत्र त्रिभिः स्पृष्ट उच्यते लोकमध्यस्थमहाप्रयत्नवक्तृनिसृष्टानि वाग्द्रव्याणि सूक्ष्मत्वाद्बहुत्वाच्चाऽनन्तगुणवृद्ध्या वर्धमानानि, प्रथमसमय एव दण्डाकाराणि षट्सु दिक्षु लोकान्तमाप्नुवन्ति । जीवसूक्ष्मपुद्गलयों' रनुश्रेणिगतिरिति वचनात् द्वितीयसमये त एव षट्दण्डाश्चतुर्दिशमेकैकशो वर्धमानाः षण्मन्थाना भवन्ति । तृतीयसमये त्वन्तरालपूरणात् पूर्णो लोकः स्यात् । यदा तु दिगन्ते नाडीबहिः स्थितो वक्ता कश्चिद्देवो वक्ति, तदाद्यसमये
*******
आ.नि.
मङ्गलम् मतिज्ञानम् ।
गाथा - १०-११
१०