SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ आवश्यक- *चतुरङ्गलबाहल्यो रज्ज्वायामो भाषाणुराशिदण्डाकारः सन्मुखदिगन्ते लगति । द्वितीयसमये चतुरङ्गलबाहल्यो रज्जुविस्तारः * नियुक्तिः ऊर्ध्वाधश्चतुर्दशरज्ज्वायामः कपाटाकारः, तिर्यग्लोके तु दिग्द्वयाणुनिर्गमे स्थालाकारः स्यात् । तृतीये तूर्ध्वाध:कपाटयोर्मन्थत्वम्, चतुर्थे । श्रीतिलका- त्वन्तरालपूरणम् । एवं चतुर्भिः समयैर्लोकः पूर्यते । यदा तु विदिशि स्थितो वक्ति तदैकसमयेन विदिशो दिशि, द्वितीयसमयेन नाडी * चार्यलघुवृत्तिः प्रविशति । अन्यैस्त्रिभिः प्राग्वल्लोकमापूरयति । एवं पञ्चभिः पूर्णो भवति । 'भासाए' इति भाषाया लोकव्यापिन्याः ।।११।।* आ. नि. ११ * तत्त्वभेदपर्यायैर्व्याख्येति तत्त्वतो भेदतश्च मतिज्ञानं व्याख्यातमधुना नानादेशजविनेयसुखावबोधाय तत्पर्यायानाह - ईहा अपोह वीमंसा मग्गणा य गवसणा । सन्ना सई मई पन्ना सव्वं आभिणिबोहियं ।।१२।। मतिज्ञानम् । * ईहा-स्थाणुर्वा पुरुषो वेति विचारणा । अपोहो निश्चयः । ईहाया उत्तरोऽपोहात् पूर्वः 'नात्र राजपथे स्थाणुर्भवति, पुरुषः सम्भाव्यते' इति * गाथा-१२-१३ * विमर्शः । अन्वयधर्मालोचनं मार्गणा 'चः' समुच्चये, व्यतिरेकधर्मालोचनं गवेषणा । संज्ञा व्यञ्जनावग्रहानन्तरं शब्दनिरूपितार्थज्ञानरूपा ।* * स्मृतिरनुभूतार्थस्मरणरूपा । मतिआतेऽप्यर्थे सूक्ष्मधर्मालोचनरूपा । प्रज्ञा स्वयमेव विशिष्टक्षयोपशमात् प्रभूतार्थधर्मालोचना सर्वमिदमाभिनिबोधिकम् ।।१२।। इदानीं नवभिरनुयोगद्वारैर्मतिज्ञाननिरूपणमाह - संतपयपरूवणया दवपमाणं च खित्तफुसणा य । कालो य अंतरं भाग भाव अप्पाबह चेव ।।१३।। ****
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy