________________
आवश्यक- * गइ इंदिए य 'काए जोए वेए कसाय लेसासु । समत्तनाणदंसर्णसंजयउँवओर्गआहीरे ।।१४।। नियुक्तिः ॐ "भासग परित्तपजत्त "सुहुम “सन्नी य हुंति "भव,रेमे । आभिणिबोहियनाणं मग्गिज्जा एसु ठाणेसु ।।१५।।* श्रीतिलकाचार्यलयवत्तिः ॐ सत्पदप्ररूपणा-मतिज्ञानस्यास्तित्वाख्यानम् । द्रव्यप्रमाणं-कियन्तो मतिज्ञानिनः । क्षेत्रं-कियति क्षेत्रे मतिज्ञानिनः सन्ति । स्पर्शना-कियत् *
के क्षेत्रं ते स्पृशन्ति । क्षेत्रस्पर्शनयोरयं विशेष: - यत्रावगाहस्तत्क्षेत्रं स्पर्शना तु बाह्यतोऽपि स्यात् । काल:-स्थित्यादिः । अन्तरं-प्रतिपत्त्यादौ । * आ.नि. * भाग:-मतिज्ञानिनोऽन्यज्ञानिनां कतिभागे । भाव: - कस्मिन्भावे मतिज्ञानिनः । अल्पबहुत्वं - एषां पूर्वप्रतिपन्नप्रतिपद्यमानापेक्षम् । अथ * मङ्गलम् * सत्प्ररूपणादिद्वारैर्मतिज्ञानं गत्यादिषु मार्गयेत् । तत्र गतौचतुर्विधायामपि मतिज्ञानिनः पूर्वप्रतिपन्ना नियमतः सन्ति । प्रतिपद्यमानास्तु *
मतिज्ञानम् । *कदाचिद्भवन्ति वा न वा । इन्द्रियद्वारे-पञ्चेन्द्रियेष्वाद्याः सदैव सन्ति, अपरे स्युर्न वा । द्वित्रिचतुरिन्द्रियेष्वविरतसम्यग्दृष्टेः सम्यक्त्वं वमत *"
उत्पादादपर्याप्तकावस्थायामाद्याः सम्भवन्ति, नान्ये । एकेन्द्रियेषूभयाभावः । काये-त्रसाख्ये, आद्याः सन्ति सदैव, इतरे स्युर्न वा । *शेषकायेषूभयाभावः । योगे-त्रिषु योगेषु समुदितेषु पञ्चेन्द्रियवत् । केवलकाययोगे तूभयाभावः । वेदे-त्रिष्वपि वेदेष्वाद्याः सन्त्येव, अन्ये * *स्युर्न वा । कषायेषु-अनन्तानुबन्धिषूभयाभावः, शेषेषु पञ्चेन्द्रियवत् । लेश्यासु - आद्यास्वाद्याः सन्ति, नान्ये । शेषासु तिसृषु पञ्चेन्द्रियवत् ।* * सम्यक्त्वद्वारे-आद्या एव नापरे, सम्यग्दर्शनमतिश्रुतानां युगपल्लाभात् । ज्ञानद्वारे-मतिश्रुतावधिमनोज्ञानेषु आद्या एव नापरे । केवलज्ञाने तु *
*******
*******