Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः।
रघु० टी० । क्षणभङ्गे विप्रतिपत्तिः शब्दादिः क्षणिको न वा क्षणिकत्वं च स्वाधिकरणसमयप्रागभावाधिकरणक्षणानुत्पत्तिकत्वे मति कादाचित्कत्वम् उत्पत्तिमत्त्वं वा उत्पत्तिश्च स्वाधिकरणक्षणावृत्तिप्रागभावप्रतियोगिक्षणसम्बन्धः । क्षणश्च स्वाधेयपदार्थप्रागभावानाधारसमयः । प्रसिद्धिस्तु विधेः नैयायिकानां प्रागभावे चरमध्वंसे च निषेधस्य च बौद्धानामलोके खाधिकरणसमयप्रागभावाधिकरणक्षणावृत्तित्वं चणिकत्वमिति तु ज्यायः। प्रसिद्धिरेतस्य महाप्रलये प्रागभावश्चात्र भावाभावसाधारणो बोध्यः । अन्ये कादाचित्काभावो वा तेनान्यभावव्युदामः खाधिकरणक्षणवृत्तिध्वंसप्रतियोग्यवृत्तित्वं वा वणिकत्वम् । क्षणत्वं च खावृत्तियावत्स्ववृत्तिध्वंसप्रतियोगिकत्वं स्ववृत्तिध्वंसप्रतियोग्यनाधारवं वा क्षणोऽपि वा नोपादेयः। भिन्नकालयोरनाधाराधेयभावो वा वृत्तिर्वा कालिको वनव्या तेनातीतगोचरक्षणिकज्ञाने नांशतो बाधादिः शब्दादिः स्वोत्पत्यव्यवहितोत्तरकालौनध्वंमप्रतियोगी न वा स्वोत्पत्तिव्याप्यो न वा व्याप्तिश्च कालिकौ विधिप्रसिद्धिरेकदेशिनाम् अन्यशब्द इति केचित् । सत्त्वमुत्पत्तिव्याप्यं न वा इत्यादिकं तु न युक्तम् । तथा मति सत्त्वादेरेवोत्पत्तिव्याप्यत्वादिकस्य साधयितुमुचितत्वात् अनुमितिकारणव्याप्तिपक्षधर्मताज्ञानजनकोदाहरणोपनयात्मकट्यवयववादी बौद्धः चणिकत्वे मानमाह। यत् मदिति। स्थूलद्रव्याभ्युपगमेन घटो दृष्टान्तः प्रमाध्याङ्गकः तथोत्पादविशिष्टो वा परमाणुसमूहो घटः अमन्नेव वा व्यतिरेकदृष्टान्त इति केचित् । विवादाध्यामित इत्येकदेशिमतेनान्य शब्दे अंशतः सिद्धसाधनवार
For Private and Personal Use Only