Book Title: Atmapradip Granth
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दृश्यं यत्तन मे किञ्चिद्, ध्रुवं ज्ञातं विवेकतः
आत्मारिवन्धुरात्मामे, दुष्टाऽदुष्टविचारतः ॥८६॥ बाह्यभावस्य संसर्गात, किं मे जातं तथा गतम् नाऽहं संसर्गतो लिप्तो, रागद्वेष विवर्जनात्. ॥८७ ॥ कापि नैव कर्ताऽहं भोक्ताऽपि नैवभोगभाक्; अन्यतोऽहं प्रभिन्नोऽस्मि स्वात्मनि स्वात्मताहिवै. ॥८८ ॥ अन्तर्मुखोपयोगेन, वतिष्येऽहं मुदाध्रुवम ; साधयिष्याम्यहं शुद्धां, स्वकीया मात्मशुद्धताम् . ॥८९ ॥ किंस्वर्गेण च राज्येन, नाऽहं लिङ्गी न जातिभाक्; नाऽवृद्धो युवाबालो, देहस्थोऽपि न देह्य हम्. ॥९० ॥ मनोवाग देहयोगेहि, भिन्नोऽस्मि वस्तुतःस्वयम्; अनन्तशक्तिरूपोऽहं, ज्योतिषामपि भासकः ॥९१ ॥ नाऽहं वर्णी नच तुच्छः कथमौदयिकेष्वहं; स्वमवद् बाह्यभावेषु, नाऽहं नाऽहं स्मराम्यहं. ॥ ९२ ॥ वस्तुतः शुद्धम्पोऽहं, जन्ममृत्यु नरातिगः निकल्पातीतरूपोऽह, मात्मा विछिन्नसंशयः कथंचित्रभवं प्राप्य, सद्गुरु प्रभुबोधतः विज्ञातं सत्स्वरूपं मे, धन्योऽस्मि कृतपुण्यकः ॥ ९४ ॥ नमामि सत्स्वरूपंमे, ज्ञातायेन परात्मता; शुद्धस्फटिक संकाशो, ब्रह्मा विष्णु महेश्वरः ॥ ९५ ॥ सर्वेष्वहं सर्वभिन्नो, ज्ञानपर्यायव्यक्तितः अलोकिकस्वरूपोऽहं, भिन्नोऽस्मिनामरूपतः
For Private And Personal Use Only

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318