Book Title: Atmapradip Granth
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 306
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सम्यक् श्रुतं समालम्ब्य, आत्मधर्म समाश्रय आत्मारामः सदोपास्यः सोऽहं जापेन तत्त्वरा . ॥६४ ॥ अन्तर्लक्ष्यं सदा देयं, चिदानन्दप्रकाशकम् । आत्मैव परमात्माऽहं, भावना मोक्षकारिका. ॥६५॥ सर्वशक्ति समुत्थान, मात्मध्यानेन जायते; प्रतिक्षणं सदा ध्येय, मात्म तत्वं सुखामृतं. क्षयोपशमभावेन, केवलज्ञान माप्यते; सर्वकर्माणि संत्यज्य. जीवः सिद्धत्वभाग भवेत् . ॥१७॥ सर्वकर्मक्षयं कृत्वा, जीवा यान्ति शिवालयं; याता यास्यन्ति भव्यास्तु. निष्क्रियाः शुद्धरूपकाः ॥६८॥ अक्रियत्वाच तेषांहि, पुनरावृत्तिर्न संमृतौ; कर्माभावात् स्थिराः शुद्धाः, केवलज्ञान धारकाः ॥ ६९ ॥ अनन्तशक्तिमत्वाच, प्रत्युपकृतिभावतः गतिः सर्वत्र सिद्धानां, मन्यन्ते तन्न युक्तिमत् . ॥ ७० ॥ अनन्तशक्तियुक्तत्वात्, स्वस्वभाव विरामकाः नैव पुद्गलशक्त्यातु, शक्ताः सिद्धा निरञ्जनाः ॥ ७१ ।। गमनं देह संबंधात्, सिद्धा देहवियोगिनः अतस्तेषां गति स्ति, शक्तिस्तु शुद्धभावतः ॥ ७२ ॥ परोपकृतिभावस्तु, मोहोत्थितश्च पुण्यकृत सर्वथा मोहनाशाच, शुद्धपर्यायसंयुताः । ॥ ७३ ।। शुभाशुभं जगत् सर्व, ज्ञानादर्श प्रभासते; सिद्धलक्ष्मीपरेशाना, नैव गच्छन्ति कुत्रचित्. ॥ ७४ ।। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318