Book Title: Ashtasahastritatparya Vivaranam Part 2
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 17
________________ ४१९ द्वितीयो भागः [ परि०२-का. २४] क्रियादिकार्यस्य ब्रह्मणोऽनन्यत्वादद्वैतमेवेति चेत्, कथं स्वस्मादेव तस्य जन्म युज्यते ? कथं च कार्यादभिन्नस्य ब्रह्मणोऽकार्यत्वम् ? यतो नित्यत्वं स्यात् । परस्माज्जायते इति चेद्, द्वैतसिद्धिः, पुरुषात्परस्य क्रियाकारकभेदहेतोरभ्युपगमात् । परस्यानाद्यविद्यारूपत्वादकिञ्चिद्रूपस्य द्वितीयत्वायोगान्न द्वैतसिद्धिरिति चेत्, कथमकिञ्चिद्रूपस्य कारणत्वम् ? कार्यस्याप्यकिञ्चिद्रूपत्वाददोष इति चेत्, किमिदानीं खरविषाणादश्वविषाणस्य जन्मास्ति ? नेति चेत्, कथमविद्यात्मनः कारणादविद्यात्मककार्यस्योत्पत्तिः ? माहेन्द्रादिषु मायामयादेव पावकादेस्तथाविधधूमादिजन्मदर्शनाददोष इति चेत्, न तत्रापि पावकधूमाद्योः सर्वथा मायामयत्वासिद्धेः न हि तत्प्रतिभासयोर्मायारूपत्वं, स्वसंवेदनसिद्धत्वात् । नापि बहि: सद्रव्यादिरूपयोर्मायास्वभावत्वं, व्यभिचारित्वाभावात् । तद्विशेषाकारयोर्मायारूपत्वमिति चेत्, न तद्विविक्तवस्तुव्यतिरेकेण मायायाः सम्भवाभावात् । तथा क्रियाकारकभेदप्रपञ्चाचारविविक्तपरब्रह्मव्यतिरेकेणाविद्यायाः सम्भवाभावे कथं वेदान्तवादिनामविद्यातः कार्यस्याविद्यात्मनो जनने स्वस्मादेव स्वस्य जन्म न भवेत् ? तच्च प्रमाणविरुद्धं न शक्यं व्यवस्थापयितुं नैरात्म्यवत् । [क्रियाकारकादिभेदो न स्वतो जायते न परतः, किन्तु जायत एवेति मन्यमाने दोषान् प्रदर्शयन्त्याचार्याः ।] क्रियाकारकभेदोऽयम्, (भा०) न स्वतो जायते परतो वा । अपि तु जायते एवेति - अष्टसहस्रीतात्पर्यविवरणम् चाकार्यमित्येवमभेदेऽपि सुवर्णतद्विकारवत् कार्यकारणभाव इति शङ्कनीयम्, एवं सति भेदाभेदवादप्रसङ्गात्, कार्यदशायामपि तदभिन्नत्वे कूटस्थत्वव्याघाताच्च । तर्हि प्रपञ्चोऽविद्याजन्मास्तित्वत्याशक्य निषेधति-परस्मादित्यादिना । अकिञ्चिद्रूपस्येति अविद्याया असत्याया द्वितीयायाः कारणभूताया अभ्युपगमेऽपि सदद्वैताव्याकोपादित्यर्थः । माहेन्द्रादिष्विति 'उडीशादिग्रन्थप्रसिद्धेन्द्रजालादिकर्मस. तद्विशेषाकारयोरिति अतद्देशस्थयोरपि तद्देशत्वेन प्रतीयमानयोरित्यर्थः । तद्विविक्तेति अन्यदेशे तत्सत्त्वान्न सर्वथा मायामयत्वमिति १. उड्डीशतन्त्रं रावणेश्वरसंवादरुपः तन्त्रशास्त्रीयग्रन्थः । तत्र दशमे पटले इन्द्रजालादिकर्मवर्णनम् ।

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 294