Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः ।
परमापूर्वस्य कारणत्वमङ्गीक्रियते । नतु समस्तानां कलिकापूवाणाम्। तत्परमापूर्वस्य न प्रेत बनाशरूपफलजनने विलम्वित्वं फलस्य कालान्तरभाविवाभावेन प्रतिवन्धकविरहात् । शुभापूर्ववदुरितापूर्तीणामप्येषैव रीतिः । तथाहि लवप्राश्चित्तनाश्ये यवीपपातकादौ पततीतिश्रुतिरस्ति तवाभ्य ततत्तत्कर्माण एव पातित्यजनकताया अयग्य कल्पनीयतया पूर्वपूर्वोत्पन्नपापव्यक्तिसहकतमुत्तरीत्तरं तत्तत् कर्म पूर्वपूर्वपापव्यक्त्यपेक्षया महतौं महतौं पापविमुत्यादयति। अनन्तरञ्च पूर्वपूर्वी विनश्यति । एवं क्रमेण यदा हादशवार्षिकमहाव्रतनाश्य महापातकसमाना पापव्यक्तिरुत्पद्यते तदैव पातित्यमाधत्ते । पातितास्य एकपापव्यक्ति साध्यत्वात् । अतएव महापातकसंसर्ग शूलपाणिनाप्य षैव रीतिरवलम्बिता। पततीति श्रुतिविर हेतु सहस्रशीपापपातकव्यक्तयो न जनयितुं शक्नुवन्ति पातित्यम् । एकतमस्यापि तथाविधवलवत्त्वाभावात्। एवमन्यवाप्यूह्यम् । तदितो विरमतु प्रासङ्गिकविस्तरावतारः ।
तनु वैशेषिकतन्त्र "तस्य गुणा बुद्धि-सुख-दुःखेच्छा-देष प्रयत्न-धर्माधर्म-संस्कारसङ्ख्या-परिमाण-पृथक्त्व-संयोग-वियोगा इति प्रशस्तपादाचायंर्धम्माधर्मयोरात्मवत्तिगुणविशेषत्वमभिहितम् । अक्षपादतन्त्रे च तथैवाझापगतम् । एवञ्च अप्रतिषिद्ध परमतमनुमतं भवतीति तन्वयुक्त जैमिनेरप्याचार्य्यस्य तत्रैव तात्पर्यावधारणौचित्यात् धर्मलक्षणगतार्थ पदेन कर्मजन्यापूर्वमेव व्याख्यायतामविरोधादितिचेत् । अवीच्यते । गुरुमतानुयायिभिः प्राभाकरै स्तथैव व्याख्यातम् । भाष्यकारवार्त्तिककारस्तु यागादरेव धर्मत्वमुक्तम्। तन्मतानुयायित्वात् पार्थसारथिमिश्रमाधवाचार्यादिवर्दतद्ग्रन्यकतापि यागादेव धर्म चमङ्गीकृतम् । भाष्य कारः साधितञ्च यागादरेव धर्म वं यथा “योहि यागादिकमनुतिष्ठति तं धार्मिक इति समाचक्षत इति” तथा “न केवलं लोके वेदेपि यज्ञेन यज्ञमजयन्त देवास्तानि धर्माणि प्रथमान्यासन्निति यजति शब्दवाच्यमेव धर्म समामनन्ति” इति च । अतएव धर्ममाचरेदित्यादी धर्मास्याचरणक्रियायां कर्मतयान्वयः सुघटः ।।
ननु धमाधर्मयोरतीन्त्रियत्वं सर्व्वतन्त्रसिद्धम् । यागादधर्मपदवाच्यत्वे तयाघात: स्यात् यागादेरिन्द्रियग्राह्यताया अविवादविषयत्वादितिचेन्न। निःश्रेयससाधनत्वेनैव यागादेर्धर्मत्वान्निःश्रेयससाधनतायाश्च तेषां वेदमावगम्यतया इन्द्रियागीचरत्वात् ।
For Private And Personal

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 ... 474