________________
अनुयो० मलधारीया
अनुयो.
अधिक
॥१२॥
किं तत्स्थापनावत इति स्थापना कानालक्षणं च सामा" इति,विनेयानुग्रहयका
से किं तं ठवणावस्सयं?, २ जपणं कठुकम्मे वा पोत्थकम्मे वा चित्तकम्मे वा लेप्पकम्मे वा गंथिमे वा वेढिमे वा पूरिमे वा संघाइमे वा अक्खे वा वराडए वा एगो वा अणेगो वा सब्भावठवणा वा असब्भावठवणा वा आवस्सएत्ति ठवणा ठविजइ
से तं ठवणावस्सयं (सू० १०) अथ किं तत् स्थापनावश्यकमिति प्रश्ने सत्याह-'ठवणावस्सयं जपण'मित्यादि, तत्र स्थाप्यते अमुकोऽयमित्यभिप्रायेण क्रियते निर्वय॑त इति स्थापना-काष्ठकादिगतावश्यकवत्साध्वादिरूपा सा चासौ आवश्यकतद्वतोरभेदोपचारादावश्यकं च स्थापनावश्यक, स्थापनालक्षणं च सामान्यत इदम्-“यत्तु तदर्थवियुक्तं तदभिप्रायेण | यच्च तत्करणि। लेप्यादिकर्म तत्स्थापनेति क्रियतेऽल्पकालं च॥१॥” इति,विनेयानुग्रहार्थमन्त्रापि व्याख्या-तुशब्दो नामलक्षणात् स्थापनालक्षणस्य भेदसूचकः, सचासावर्थश्च तदर्थो-भावेन्द्रभावावश्यकादिलक्षणस्तेन वियुक्तं-रहितं यद्वस्तु तदभिप्रायेण'भावेन्द्राद्यभिप्रायेण 'क्रियते' स्थाप्यते तत्स्थापनेति सम्बन्धः, किंविशिष्टं यदित्याहM'यच्च तत्करणि' तेन-भावेन्द्रादिना सह करणिः-सादृश्यं यस्य(तत्) तत्करणि-तत्सदृशमित्यर्थः,चशब्दात्तदकरणि चाक्षादि वस्तु गृह्यते, असदृशमित्यर्थः, किं पुनस्तदेवंभूतं वस्त्वित्याह-लेप्यादिकम्र्मेति' लेप्यपुत्तलिकादीत्यर्थः, आदिशब्दात् काष्ठपुत्तलिकादि गृह्यते, अक्षादि वाऽनाकारं, कियन्तं कालं तत् क्रियत इत्याह-अल्पः कालो यस्य
॥१२॥
JainEducation int
For Private
Personal use only
www.jainelibrary.org