Book Title: Anuyogadwarasutram Uttarardham
Author(s): Hemchandracharya,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
अनुयो०
वृत्तिः
अनुयो.
मलधारीया
अधिक
*CASAASAASAASAHA**
श्रुतमेव साक्षात्यन्तोपकारि, यद्यपि केवलादिदृष्टमर्थं श्रुतमभिधत्ते तथापि गौणवृत्त्या तानि लोकोपकारीणीति भावः । यद्युक्तन्यायेनासंव्यवहार्याणि तानि ततः किमित्याह-'ठवणिज्जाइंति' ततः स्थापनीयानि एतानि, तथाविधोपकाराभावतोऽसंव्यवहार्यत्वात्तिष्ठन्तु, न तैरिहोद्देशसमुद्देशाद्यवसरेऽधिकार इत्यर्थः, अथवा स्थाप्यानि-अमुखराणि खखरूपप्रतिपादनेऽप्यसमर्थानि, न हि शब्दमन्तरेण खखरूपमपि केवलादीनि प्रतिपादयितुं समर्थानि, शब्दश्चानन्तरमेव श्रुतत्वेनोक्त इति खपरखरूपप्रतिपादने श्रुतमेव समर्थ, स्वरूपकथनं चेदमतः स्थाप्यानि-अमुखराणि यानि चत्वारि ज्ञानानि तानीहानुयोगद्वारविचारप्रक्रमे किमित्याह-अनुपयोगित्वात् स्थापनीयानि-अनधिकृतानि, यत्रैव ह्युद्देशसमुद्देशानुज्ञादयः क्रियन्ते, तत्रैवानुयोगः तद्दाराणि चोपक्रमादीनि प्रवर्त्तन्ते, एवंभूतं त्वाचारादि श्रुतज्ञानमेव इत्यत उद्देशाद्यविषयत्वादनुपयोगीनि शेषज्ञानानि, इत्यतोऽत्रानधिकृतानि । अत्राह-अनुयोगो व्याख्यानं, तच शेषज्ञानचतुष्टयस्यापि प्रवर्त्तत एवेति कथमनुपयोगित्वं?, ननु समयचर्यानभिज्ञतासूचकमेवेदं वचो, यतो हन्त तत्रापि तद्ज्ञानप्रतिपादकसूत्रसंदर्भ एव व्याख्यायते, स च श्रुतमेवेति श्रुतस्यैवानुयोगप्रवृत्तिरिति । अथवा-स्थाप्यानि-गुर्वनधीनत्वेनोद्दे-18 शाद्यविषयभूतानि, एतदेव विवृणोति-स्थापनीयानीति, एकाओं द्वावपि, इदमुक्तं भवति-अनेकार्थत्वादतिगम्भीरत्वाद्विविधमत्राद्यतिशयसम्पन्नत्वाच्च प्रायो गुरूपदेशापेक्षं श्रुतज्ञानं, तच्च गुरोरन्तिके गृह्यमाणं परमकल्याणकोशत्वादुद्देशादिविधिना गृह्यत इति तस्योद्देशादयः प्रवर्त्तन्ते, शेषाणि तु चत्वारि ज्ञानानि तदावरण
ते, स च श्रुतमेवेति भातासूचकमेवेदं वचो, या शेषज्ञानचतुष्टयस्यापि मपयोगीनि ।
Jan Education
For Private Personal Use Only
Sainelibrary.org

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 546