Book Title: Anuyogadwarasutram Uttarardham
Author(s): Hemchandracharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 13
________________ |श्चिन्तयति 'सागरवरगम्भीरेति'यावचतुर्विशतिस्तवं चिन्तयति इत्यर्थः, 'उद्देससमुद्देसे सत्तावीसं अणुण्णवणयाए' इतिवचनात्, ततः पारितकायोत्सर्गः संपूर्ण चतुर्विशतिस्तवं भणित्वा परिसमाप्तोद्देशक्रियत्वाद गुरोः थोभवन्दनकं ददाति, तच न श्रुतप्रत्ययं, किं तर्हि ?, श्रुतदातृत्वादिना गुरुः परमोपकारी, तदिनयप्रतिपत्तिनिमित्तमिति । अङ्गादिसमुद्देशेऽप्ययमेव विधिर्वक्तव्यो, नवरं पूर्वप्रवेदिते योगं कुवित्युक्तमत्र तु स्थिरपरिचितं कुर्विति वदति, योगोत्क्षेपकायोत्सर्गो नन्द्याकर्षणं प्रदक्षिणात्रयविधिश्च न क्रियते, शेषः ससवन्दनकादिको विधिस्तथैव । अनुज्ञाविधिस्तु योगोत्क्षेपकायोत्सर्गवर्जः सर्वोऽप्युद्देशविधिवद्वक्तव्यो, नवरं प्रवेदिते गुरुर्वदति-सम्यग् धारयान्येषां च प्रवेदयं अन्यानपि पाठयेत्यर्थः, आवश्यकादिषु तण्डुलविचारणादिप्रकीर्णकेष्वपि चैष एव विधिः, नवरं स्वाध्यायप्रस्थापनं योगोत्क्षेपकायोत्सर्गश्च न क्रियते, एवं सामा|यिकाद्यध्ययनेषूद्देशकेषु च चैत्यवन्दनप्रदक्षिणात्रयादिविशेषक्रियारहितः सप्तवन्दनकप्रदानादिकः स एव विधिरिति तावदियं चूर्णिकारलिखिता सामाचारी, साम्प्रतं पुनरन्यथापि ताः समुपलभ्यन्ते, न च तथोपलभ्य सम्मोहः कर्त्तव्यः, विचित्रत्वात्सामाचारीणामिति । इदानीमनुयोगविधिरुच्यते-तत्रानुयोगो-वक्ष्यमाणशब्दार्थः, स यदाऽधीतसूत्रस्याचार्यपदप्रस्थापनयोग्यस्य शिष्यस्यानुज्ञायते तदाऽयं विधिः-प्रशस्तेषु तिथिनक्षत्रकरणमुहर्तेषु प्रशस्ते च जिनायतनादौ क्षेत्रे भुवं प्रमाj एका गुरूणामेका त्वक्षाणामिति निषद्यादयं क्रि १ उद्देशे समुद्देशे सप्तविंशतिरनुज्ञापने. 555555545054 बपि चैष एव विधि, वाचावेदय' अन्यानपि पाठयेत्याप्युद्देशविधिवक्तव्यो, नव Jain Education For Private Personal Use Only CaMjainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 546