Book Title: Anuttaropapatik Dasha
Author(s): Sudharmaswami, Abhaydevsuri
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 21
________________ ॥ सावचूरिकं पुद्गलपरावर्त्तस्तोत्रम् ॥ श्रीवीतराग भगवंस्तव समयालोकनं विनाऽभूवन् । द्रव्ये क्षेत्रे काले, भावे मे पुद्गलावर्त्ताः ॥ १ ॥ मोहप्ररोहरोहान्नट इव भवरङ्गसङ्गतः खामिन् ! | कालमनन्तानन्तं, आन्तः षट्कायकृतकायः ॥ २ ॥ औदारिकवैक्रियतैजस भाषानप्राणचिन्तकर्मतया । सर्वाणुपरिणतेर्मे, स्थूलोऽभूत् पुद्गलावर्त्तः ॥ ३ ॥ तत्सप्तकैकैकेन च, समस्तपरमाणुपरिणतेर्यस्य । संसारे संसरतः, सूक्ष्मो में जिन ! तदावतः ॥ ४ ॥ निःशेषलोकदेशान्, वीतराग! हे भगवन् ! मे - मम पुद्गलपरावर्त्ता अभूवन् कस्मिन् विषये ? द्रव्यक्षेत्रकालभावविषये, कथमभूवन् ? भवतः स| मयालोकनं विना -- सर्वज्ञसिद्धान्तविचारणं विना ॥ १ ॥ हे स्वामिन्! अहं भ्रान्तः - एकस्माद्भवात् द्वितीयादिभवेषु प्राप्तः, किंविशिष्टः सन् ? भवरङ्गसङ्गतो भवः - संसारः स एव रङ्गो - नाट्यस्थानं तत्र सङ्गतः - स्थितः, कस्मात् मोहप्ररोहरोहात् मोहो-अज्ञानं स एव प्ररोहो 1- अङ्करस्तस्य रोहो- वृद्धिस्तस्मात् क इव नट इब कियन्तं कालं भ्रान्तः अनन्तानन्तं कालं सिद्धान्तभाषया सर्षपभृञ्चतुष्पल्यदृष्टान्तेनानन्तं ज्ञेयं अनन्तादनन्तं अनन्तानन्तं एतावन्तं कालं भ्रान्तः, किं भूतः पृथ्व्यादिपु षट्सु कायेषु कृतः काय:- शरीरं येन स इति ॥ २ ॥ औदारिकपुद्गलपरावर्त्तश्रद्धा द्रव्यत: क्षेत्रतः कालतः भवतः, एकैकोपि द्विविधः सूक्ष्मवादरभेदतः, औदारिकेन वैक्रियेण तैजसेन भाषया आनप्राणेन चित्तैर्वा कार्मणेन वा सर्वान् अणून चतुर्दशरजगतपुद्गलपरमाणून आत्मा औदारिकादिसप्तकेन यदा स्पृशति तदा द्रव्यतः स्थूलपुद्गलपरावर्त्तः ॥ ३ ॥ तदौदारिकसप्तकमध्यात् एकैकत्वेन सर्वान् परमाणून आत्मा संस्पृशन् मुञ्चति तदा पुद्गलपरावर्त्तः सूक्ष्मः इति चतुर्थश्लोकार्थः ॥ ४ ॥ पुनरप्येतौ प्रकारान्तरेण सिद्धान्तविभापयोच्यते—प्रस्तावापन्नत्वात् शरीरचतुष्टयेन

Loading...

Page Navigation
1 ... 19 20 21 22 23 24