Book Title: Anusandhan 2000 00 SrNo 16
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अनुसंधान-१६ .5 तस्याऽनन्तचिदः प्रभारमहसस्त्रैलोक्यपूज्यस्य चेत्यादौ भासयतः परं त्रिजगती चित्रं न तन्मन्महे ॥२॥ स्वस्तिश्रीश्चरणद्वयं भगवतो यस्यातिविभ्राजयांचक्रे तां प्रति तत्सितत्विषमिव श्रेष्ठा तमी तं च सा । इत्यन्योन्यसुदीप्यदीपकमहासम्बन्धसम्बन्धिनौ तौ निःशेषरसास्पृशां वृषजुषां स्यातां प्रसन्नौ सदा ॥३॥ स्वस्तिश्रीजलधिर्ददात्यसुमतां मुक्तिश्रियं पावनामाख्यानं स्मृतमेव तच्चरणयोरभ्यर्चनं किं पुनः । दृष्टः सन्तमसश्छिदां प्रकुरुते प्रागग्रजोऽहिद्विषस्तत्कि वाच्यमिहास्ति पुष्करमणौ पद्यां दशोः सङ्गते ॥४॥ स्वस्तिश्रीयंतरन् यदीयचरणा अर्णासि पाथोभृतः कामं कल्पनगाः समीहितभरान् प्राणस्पृशां भूयसाम् । तन्मध्ये हि पदानवैमि रुचिरान् सद्दानशौण्डान् यतः पाथोदाः कतिमास एव ददते कल्पा अमुष्मिन् भवे ॥५॥ स्वस्तिश्रीकरणं यदीयचरणं(ण)द्वन्द्वस्य चर्चाविधि विज्ञायाऽतिविदध्युरद्भुततया स्वप्नास्तमेवादरात् । दण्डं कुम्भनिबन्धनं घटकृतो निश्चित्य तनिर्मितं कुर्वीरंश्च निबन्धनेन हि विना कृत्यं न कुत्राप्यहो ! ॥६॥ स्वस्तिश्रीः श्रयति स्म मोदनिवहैर्यं योगिनं स्वःसदां वृन्दैर्वन्द्यपदद्वयं शममयं निःशेषनष्टामयम् । पाथोनाथमिवापगामृतलिहां नीराधिनाथाङ्गजाराजीवं च सरोरुहासनसुताश्वेतच्छदं व्योमगम् ॥७॥ स्वस्तिश्री: परिपूरितस्य विलसत्पादद्वयाम्भोरुहे यस्याऽस्वप्नगणाः सदा शुशुभिरे किं नाम पुष्पन्धयाः । विस्फारङ्गुलिपत्रसुन्दरतरे रङ्गत्प्रभाभासुरे रेखादम्भमृणालदण्डकलिते लक्ष्मीविनासोचिते ॥८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 254