SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१६ .5 तस्याऽनन्तचिदः प्रभारमहसस्त्रैलोक्यपूज्यस्य चेत्यादौ भासयतः परं त्रिजगती चित्रं न तन्मन्महे ॥२॥ स्वस्तिश्रीश्चरणद्वयं भगवतो यस्यातिविभ्राजयांचक्रे तां प्रति तत्सितत्विषमिव श्रेष्ठा तमी तं च सा । इत्यन्योन्यसुदीप्यदीपकमहासम्बन्धसम्बन्धिनौ तौ निःशेषरसास्पृशां वृषजुषां स्यातां प्रसन्नौ सदा ॥३॥ स्वस्तिश्रीजलधिर्ददात्यसुमतां मुक्तिश्रियं पावनामाख्यानं स्मृतमेव तच्चरणयोरभ्यर्चनं किं पुनः । दृष्टः सन्तमसश्छिदां प्रकुरुते प्रागग्रजोऽहिद्विषस्तत्कि वाच्यमिहास्ति पुष्करमणौ पद्यां दशोः सङ्गते ॥४॥ स्वस्तिश्रीयंतरन् यदीयचरणा अर्णासि पाथोभृतः कामं कल्पनगाः समीहितभरान् प्राणस्पृशां भूयसाम् । तन्मध्ये हि पदानवैमि रुचिरान् सद्दानशौण्डान् यतः पाथोदाः कतिमास एव ददते कल्पा अमुष्मिन् भवे ॥५॥ स्वस्तिश्रीकरणं यदीयचरणं(ण)द्वन्द्वस्य चर्चाविधि विज्ञायाऽतिविदध्युरद्भुततया स्वप्नास्तमेवादरात् । दण्डं कुम्भनिबन्धनं घटकृतो निश्चित्य तनिर्मितं कुर्वीरंश्च निबन्धनेन हि विना कृत्यं न कुत्राप्यहो ! ॥६॥ स्वस्तिश्रीः श्रयति स्म मोदनिवहैर्यं योगिनं स्वःसदां वृन्दैर्वन्द्यपदद्वयं शममयं निःशेषनष्टामयम् । पाथोनाथमिवापगामृतलिहां नीराधिनाथाङ्गजाराजीवं च सरोरुहासनसुताश्वेतच्छदं व्योमगम् ॥७॥ स्वस्तिश्री: परिपूरितस्य विलसत्पादद्वयाम्भोरुहे यस्याऽस्वप्नगणाः सदा शुशुभिरे किं नाम पुष्पन्धयाः । विस्फारङ्गुलिपत्रसुन्दरतरे रङ्गत्प्रभाभासुरे रेखादम्भमृणालदण्डकलिते लक्ष्मीविनासोचिते ॥८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy