SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१६ .6 रसास्पृशामर्हणामाददानं यं दानशौण्डं प्रवदन्ति सन्तः । यः पर्यणैषीद्वरसिद्धिकामिनी, तथापि यो ब्रह्मवतां धुरि स्थितः ॥९॥ द्विधा समस्तान् प्रजघान यो द्विषस्तथाप्यमन्युप्रथितावदातभाक् । यो निर्मिमीते नहि कस्यचिन्नति तथाप्यमानीति वचस्विनोऽब्रुवन् ॥१०॥ न स्थाणुभावं न च भीमभावं न चैकदक्त्वं न च षण्ढभावम् । बरीभरीति स्म न बभ्रुभावं शिवो महेशोऽपि हि शङ्करोऽपि ॥११॥ न चैकपात् त्वं शिपिविष्टभावं न रुद्रभावं न च शूलिभृत्त्वम् । दरीधरीति स्म न गोपतित्वं महाव्रती शम्भुरपीश्वरोऽपि ॥१२॥ शिवश्रीपरीरम्भविद्वन्मनस्कं प्रणेमुश्चतुःषष्टिराखण्डला यम् । ददे यश्च तेषामनन्तां समृद्धि भवत्येव नान्तर्गडुः शिष्टसेवा ॥१३॥ ब्रुवाणस्य तत्त्वं ददानस्य चेष्टं ददाना अभीष्टं सतां पारिजाताः । लभन्ते स्म यस्योपमां नैव जातु प्रपन्ना यतः सन्ति ते मूकभावम् ।।१४।। क्षमस्व तापं हि हिरण्यरेतसस्तथापि कार्तस्वर ! नाप्स्यसि त्वम् । औपम्यमग्रस्य जिनेन्द्रवर्मणः प्रभूतभासो भवतो भुवस्तले ॥१५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy