SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ _ अनुसंधान-१६.7 जिनाधिराजस्य तनोस्तुलामहं दरीधरीमि स्म न जातु भूतले । इतीव हेतोः कनकं हि दिव्यति विशेत् कृशानौ कथमन्यथा हि तत् ॥१६॥ विश्वाधीश्वरविश्वसेनतनयः श्रीशान्तितीर्थेश्वरश्चक्रे यः शुचिकेवलेन निबिडाज्ञानक्षयं भूस्पृशाम् । स्वीयेनेव करोत्करेण नलिनीनाथस्तमिश्रक्षयं तापेनेव निजेन सप्तकिरणो निःशेषजाड्यच्छिदाम् ॥१७॥ इति नुतिपथं नीतो भक्त्याऽचिरातनुसम्भवस्त्रिदशवृषभैनित्यस्तुत्यक्रमाम्बुजयामलः । प्रशमितमहामोहं लब्धापुनर्भवसम्पदं जगति वितरन् शान्ति शान्ति प्रणम्य तमीश्वरम् ॥१८॥ इति अष्टादशभिः काव्यैः श्रीशान्तिनाथवर्णनम् ॥ पृथ्वीपालः प्रथितमहिमाऽकब्बरो यं प्रशास्ति श्रेयःस्थानं स जयतु चिरं गूर्जरो नाम देशः । मुक्ताक(का)र्तस्वरवरमणीमुख्यसम्पन्निधानं दस्युव्रातैरकलितपथः सर्वनीवृत्प्रधानः ॥१९॥ अथ पत्तननगरवर्णनम् ॥ तत्र प्रथमं वप्रवर्णनं यथाअपि सहनसमूहैर्भूरिशौर्यैरभ(भे)द्यो मणिमयकपिशीर्षश्रेणिसंशोभितश्रीः । कनकघटितसालो राजते यत्र पूते किमु धरणिमृगाक्ष्याः कंकणं वृत्तवृत्तम् ! ॥२०॥ न विशति परमोषी यत्र सालस्य सत्त्वानहि सदनमणौ वा विद्यमाने तमिश्रम् । उदयमियति पत्यौ रोचिषां क्षोणिपीठे न हि विशति शरीरे शीतवेगव्यथा वा ॥२१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy