________________
अनुसंधान-१६ .8 इति मनसि विमर्शो जायते कोविदानां नगरमभि निरीक्ष्य प्रोच्छ्रितं वृत्तसालम् । किमु निधिमभिवेष्टुं नायको दृक्श्रुतीनामकृत वलयभावं लोभधर्माभिभूतः ॥२२॥ जनपददयितस्यानन्दवृन्दप्रदात्री किमुत नगरयोषिद् वप्रदम्भान्नितम्बे । अधरदखिलचीरं वा कलापं कलापं निजनिगरणशोभं वासमुक्ताकलापम् ॥२३॥
इति चतुर्भिः काव्यैर्वप्रवर्णनम् ॥
अथ परिखावर्णनं यथास्वर्णरत्नमणिभिर्विनिर्मिता संयुताऽतिविशदैः कुशेशयैः । नीरपूरनिभृता च खातिका यत्र सर्वगुणधाम्नि दिद्युते ॥२४॥ गत एव विहितो विधिनाऽयं, कोविदाः ! कपटतः परिखायाः । श्रीअकब्बरनृपस्य विरोधि-क्षोणिनाथहरिणग्रहणार्थम् ।।२५।। दुर्ग एष लभते प्रतिबिम्बं खातिकापयसि किं वद विद्वन् ! । तिग्मसानुमहसा बहुतप्तः स्नातुकाम इव स प्रविवेश ॥२६॥ वप्रसंनिधिगता च खातिका भात्यशेषगुणवारिवारिधिः । किं सितद्युतिमुखी निजं धवं सङ्गताऽङ्गुलिगतेव मुद्रिका ॥२७॥ वृत्तवप्रपरिखे प्रविभातः कुण्डले श्रवणयोः पुरलक्ष्याः । पादयो[स्तु] कटके अथवा ते सज्जिते इति वदन्ति विदग्धाः ॥२८॥ पुरि यत्र मनोरमश्रियां लसतो वरवप्रखातिके । शयने दयिताङ्गने यथा सविधे सविधे स्थिते उभे ॥२९॥ स्थितेन मूर्धन्यसमेन भासते वृत्तेन वप्रेण वरेण्यखातिका । हृदीश्वरेणेव सरोरुहानना द्विजातिजातेन यथा रसज्ञका ॥३०॥ संवीक्षितुं पुरमनोहरतां सुलङ्कावप्रः समागत इहाऽतिहठादरक्षि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org