________________
अनुसंधान - १६ 9
कृत्वा कराग्रवलयं परिखाच्छलेन
भूयोषिता हि सुनरं नहि कापि जह्यात् ॥३१॥
यत्र चारुपरिखा व्यभासयद् दुर्गमुत्तममहीधराचलम् । किं चकासयति नो विकूणिका वक्त्रमालपममोत्तरं सुधीः ||३२||
या विराजति पुरीव मानिनी तद्गलः किमुत दुर्ग एषकः । खातिकोपरि वशात् सुरेखया संयुतोऽस्ति मम नैव संशयः ||३३|| इति दशभिः काव्यैः परिखावर्णनम् ॥
अथ सरस्वतीसरिद्वर्णनं यथा
यत्रिवासिजनतासुचातुरी - निर्जिता वहति शारदा पयः । न ब्री (ब्रवी) ति जनपादघट्टिता क्षालयत्यशुचिचीवराण्यहो ! ||३४|| यत्र वासमधिगच्छति स्वयं स्थानपावनतया सरस्वती । मानवा यदि हि तन्निवासिनः कोविदाः किल न तत्र कौतुकम् ॥३५॥ यत्र बालतरुणा स्थविरा वा येऽपि सन्ति निखिलाः सुधियस्ते । आजनुर्विहितसारशारदो-पासिनां हि कविता न चित्रकृत् ||३६|| यत्र पूर्जनविवेकचारुतालोकनाय समियाय हंसगा । सा प्रवाहमिषतस्ततः परं तत्र च स्थितगतीव रागतः ||३७||
यत्र पावनपयः प्रपूरिता मत्तषट्चरणपद्मसङ्गता । गर्जतीत्यथ च युक्तमीदृशं स्वे धवेऽपि हि तथैव दर्शनात् ॥३८॥
यत्र नादिवणिगादियोगतः शिक्षितादरमहाविसर्जना | भाति हंसगसुता तदीयका द्योगतश्च विबुधा नरोऽभवन् ॥३९॥
इति षड्भिः काव्यैः सरस्वतीसरिद्वर्णनम् ॥
अथं गोवर्णनम् -
स्तनैश्चतुर्भिः समलङ्कृता सदाऽस्ति वल्लभा यत्र गवां ततिर्नृणाम् । कुतूहलं तद्विदुषां न जायते यतः स्तनद्वन्द्वयुताऽपि वल्लभा ॥४०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org