Book Title: Anubhashyam
Author(s): Vallabhacharya, Shridhar T Pathak
Publisher: Shridhar T Pathak

View full book text
Previous | Next

Page 432
________________ अ. पा. सू. ९] अणुभाष्यम् ३५० स्याधिपतिरिति श्रुतिरपि तदभिप्रायेणैवेति भावः । चकारात्-मदन्यत्ते न जानन्ति नाहं तेभ्यो मनागपि ( भा. ९।४।६८) इति भगवद्वाक्यं संगृह्यते । अन्यथा सर्वज्ञस्याकुण्ठितज्ञानशक्तेरेवं कथनमयुक्तं स्यादतः पुष्टिमार्गानुग्रहैकसाध्यः प्रमाणमार्गाद्विलक्षणस्तत्र विश्वासश्च तथेति ५ सिद्धम् ॥ ४।४।९ ॥ अभावं बादरिराह ह्येवम् ॥४॥४॥१०॥ __ मुक्तोपि जीवः पुष्टिमार्गेङ्गीकृतो भगवद्दत्तं विग्रहं प्राप्य भजनानन्दं प्राप्नोतीति सिद्धम् । अत्र प्रत्यवतिष्ठते बादरिराचार्यों मुक्तस्य देहायभावं मनुते । तत्र हेतुराह । ह्येवमिति । ब्रह्मविदो हि मुक्तिरुच्यते। १० यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति (बृ.२।४।१४) इत्याद्युक्त्वा यत्र त्वस्य सर्वमात्मैवाभूत तत्केन कं पश्येत् (बृ. २।४।१४ ) इत्यादिना द्वितीयज्ञाननिषेधमाह ब्रह्मविदः श्रुतिः । तथा च तस्य कामभोगवार्ता दूरतरेति तदाक्षेप्यदेहोपि तथा ॥ ४।४।१०॥ भावं जैमिनिर्विकल्पामननात् ॥४।४।११ ॥ ५५ जैमिनिराचार्यस्तु मुक्तस्य पुंसो देहादेर्भावं सत्तां मन्यते । तत्र हेतुर्विकल्पेत्यादि । ब्रह्मविदाप्नोति परमिति श्रुत्या ब्रह्मज्ञानस्य तत्प्राप्तिसाधनत्वमुच्यते । नायमात्मा ( मुं. १२।३) इति श्रुत्या तु वरणमात्रप्राप्यत्वम् । सोश्नुत इत्यादिना च परप्राप्त्युपन्यासः क्रियते । इहैव समवनीयन्ते ब्रह्मैव सन् ब्रह्माप्येति (बृ. ४।४।२२ ) इति च २० पठ्यते । एवं सति मिथो विरोधे तदभावायोक्तव्याख्यानरीत्या ज्ञानमार्गीयस्य ब्रह्मज्ञानेनाक्षरब्रह्मप्राप्तिः पुष्टिमार्गीयभक्तस्य तु सोभुत इत्यनेनोक्ता परप्राप्तिरिति व्यवस्थितविकल्प एव श्रुत्यभिमत इति ज्ञायते। तेन नायमात्मेति श्रुतिः परप्राप्तिविषयिणी । इहैवेत्यादिश्रुतिस्तु मर्यादामार्गीयविषयिणी मन्तव्यम् । एवं सति पुष्टिमार्गीयस्य भोगसाधनात्मकविग्र५ हवत्त्वं निष्प्रत्यूहं सिध्यति । तत् केन कं पश्येदित्यादिना तु ब्रह्मज्ञानसामयिकी व्यवस्थामाह न तु तदुत्तरकालीनपरप्राप्तिसामायिकीमिति किमनुपपन्नम् ॥ ४।४।११ ॥

Loading...

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501