________________
अ. पा. सू. ९]
अणुभाष्यम्
३५०
स्याधिपतिरिति श्रुतिरपि तदभिप्रायेणैवेति भावः । चकारात्-मदन्यत्ते न जानन्ति नाहं तेभ्यो मनागपि ( भा. ९।४।६८) इति भगवद्वाक्यं संगृह्यते । अन्यथा सर्वज्ञस्याकुण्ठितज्ञानशक्तेरेवं कथनमयुक्तं स्यादतः पुष्टिमार्गानुग्रहैकसाध्यः प्रमाणमार्गाद्विलक्षणस्तत्र विश्वासश्च तथेति ५ सिद्धम् ॥ ४।४।९ ॥
अभावं बादरिराह ह्येवम् ॥४॥४॥१०॥ __ मुक्तोपि जीवः पुष्टिमार्गेङ्गीकृतो भगवद्दत्तं विग्रहं प्राप्य भजनानन्दं प्राप्नोतीति सिद्धम् । अत्र प्रत्यवतिष्ठते बादरिराचार्यों मुक्तस्य
देहायभावं मनुते । तत्र हेतुराह । ह्येवमिति । ब्रह्मविदो हि मुक्तिरुच्यते। १० यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति (बृ.२।४।१४) इत्याद्युक्त्वा
यत्र त्वस्य सर्वमात्मैवाभूत तत्केन कं पश्येत् (बृ. २।४।१४ ) इत्यादिना द्वितीयज्ञाननिषेधमाह ब्रह्मविदः श्रुतिः । तथा च तस्य कामभोगवार्ता दूरतरेति तदाक्षेप्यदेहोपि तथा ॥ ४।४।१०॥
भावं जैमिनिर्विकल्पामननात् ॥४।४।११ ॥ ५५ जैमिनिराचार्यस्तु मुक्तस्य पुंसो देहादेर्भावं सत्तां मन्यते ।
तत्र हेतुर्विकल्पेत्यादि । ब्रह्मविदाप्नोति परमिति श्रुत्या ब्रह्मज्ञानस्य तत्प्राप्तिसाधनत्वमुच्यते । नायमात्मा ( मुं. १२।३) इति श्रुत्या तु वरणमात्रप्राप्यत्वम् । सोश्नुत इत्यादिना च परप्राप्त्युपन्यासः क्रियते । इहैव समवनीयन्ते ब्रह्मैव सन् ब्रह्माप्येति (बृ. ४।४।२२ ) इति च २० पठ्यते । एवं सति मिथो विरोधे तदभावायोक्तव्याख्यानरीत्या ज्ञानमार्गीयस्य ब्रह्मज्ञानेनाक्षरब्रह्मप्राप्तिः पुष्टिमार्गीयभक्तस्य तु सोभुत इत्यनेनोक्ता परप्राप्तिरिति व्यवस्थितविकल्प एव श्रुत्यभिमत इति ज्ञायते। तेन नायमात्मेति श्रुतिः परप्राप्तिविषयिणी । इहैवेत्यादिश्रुतिस्तु मर्यादामार्गीयविषयिणी मन्तव्यम् । एवं सति पुष्टिमार्गीयस्य भोगसाधनात्मकविग्र५ हवत्त्वं निष्प्रत्यूहं सिध्यति । तत् केन कं पश्येदित्यादिना तु ब्रह्मज्ञानसामयिकी व्यवस्थामाह न तु तदुत्तरकालीनपरप्राप्तिसामायिकीमिति किमनुपपन्नम् ॥ ४।४।११ ॥