________________
३४९
२ ब्राह्माधिकरणम्।
[अ. पा. सू. ९
परप्राप्तौ स्वातन्त्र्यं ज्ञाप्यते । तदेव ब्रह्मणा सहेति पदेनोपन्यस्तम् । तेन ब्रह्मणोपि तत्समानक्रियावत्त्वं ज्ञाप्यते । परं त्वप्राधान्येन । तथा च भक्तस्यैव कामा वक्तमुचितास्ते च न विग्रहं विना संभवन्ति । किंच । विपश्चितेति विशेषणेन विविधं पश्यच्चिद्रूपत्वमुच्यते । कामभोगोक्तिप्रस्ताव ५ एतदुक्त्या तदुपयोग्येव सर्वं वाच्यम् । एवं सति भक्तविविधभावान् पश्यति स्वयंभोगचतुरश्चेत्युक्तं भवति । एतेनापि भक्तविग्रहः सिध्यति । ननु विग्रहस्यागन्तुकत्वेन लौकिकत्वादलौकिकेन ब्रह्मणा भोगो विरुद्ध इत्यत आह । पूर्वभावादिति । भक्तप्राप्तेः पूर्वमेव भगवदित्सितभोगानुरूपविग्रहाणां सत्त्वान्न विरोधः । किंच । उक्तश्रुतिसूत्रैः पुरुषोत्तमेन सह १० भक्तस्य कामभोगो निरूपितः । स यावतार्थेन विना नोपपद्यते तावान् स
श्रुत्यभिमत इति मन्तव्यम् । तथा च ब्रह्मसंबन्धयोग्यानि शरीराणि नित्यानि सन्त्येव । यथानुग्रहो यस्मिञ्जीवे स तादृशं तदाविश्य भगव. दानन्दमश्नुत इति सर्वमवदातम् ॥ ४।४७ ॥
संकल्पादेव च तच्छतेः॥४॥४॥८॥ १५ एवं परप्राप्तिः केषांचिदेव भवति । तत्र हेत्वपेक्षायामाह । भजना
नन्दं दातुं यमेव संकल्पविषयं करोति स एवैवं प्राप्नोतीति भगवत्संकल्प एव तत्र हेतुः । तत्र प्रमाणमाह । तच्छृतेः । नायमात्मेत्युपक्रम्य-यमेवैष वृणुते तेन लभ्यः (मुं. ३।२।३) इति श्रुतिः श्रूयतेतः स एवात्र हेतुः ।
श्रुतौ प्रवचनादिदोषः कृत इत्यत्राप्येवकार उक्तः । चकारात्तजनितैवैत२० दनुरूपा परमार्तिः संगृह्यते ॥ ४।४।८॥
___अत एव चानन्याधिपतिः॥४।४।९ ॥
यतो हेतोः साधनं फलं चोक्तरीत्या स्वयमेव नान्योतो हेतो. स्तेषां हृदि साधनत्वेन फलत्वेन प्रभुरेव स्फुरति नान्यस्तेनानन्यास्ते । तेषामेवाधिपतिः पुरुषोत्तमः । अन्यत्राधिपत्यं विभूतिरूपैः करोत्यतः सर्व
17-B reads आत्मेत्युक्तस्य for आत्मत्युपक्रम्य ।