________________
३४८
अ. पा. सू. ५] अणुभाष्यम् । राचार्यों मनुते । तत्र हेतुरुपन्यासादिभ्य इति। ब्रह्मविदामोति, परमिति ब्रह्मविदः परप्राप्ति प्रतिज्ञाय तदर्थस्यैवोपन्यासोनिमयर्चा क्रियते सोश्नुत इत्यादिना । तथा च परप्राप्तेर्मुक्तिरूपत्वात् पुष्टिमार्गीयायास्तस्या एवंरूपत्वादक्षरब्रह्मणः पुरुषोत्तमायतनरूपत्वात्तदात्मकमेव शरीरं तस्य वक्तु५ मुचितं न तु प्राकृतम् । एतद्बोधनायैवागेन्नमयादीनि विभूतिरूपाण्युक्तानि । भक्तशरीरे प्रतीयमानानामर्थानां विभूतिरूपत्वेन ब्रह्मात्मकत्वं तेन साधितं भवति । इदमेवादिपदेन बहुवचनेन च ज्ञाप्यते । एतदानन्दमयाधिकरणे प्रपञ्चितमतो नात्र पुनरुच्यते तत्र कर्मवादी जैमिनिरेवं मनुते तत्रान्येषामेव
मड़ीकारे किमाश्चर्यमिति ज्ञापनाय तन्मतोपन्यासः कृतः ॥ ४।४।५॥ १० चितितन्मात्रेण तदात्मत्वादित्यौडुलोमिः ॥ ४॥४॥६॥
स यथा सैन्धवघनोनन्तरोबाह्यः कृत्स्नो रसघन एवं वा अरे अयमात्मानन्तरोबाह्यः कृत्स्नः प्रज्ञानघनः (बृ. ४।५।१३) इति श्रुतौ घनपदेन ज्ञानात्मकविग्रहात्मत्त्वं ब्रह्मणो बोध्यते । अन्यथा न वदेत् । प्रयोजनाभावात् । तथा च तादृशेन सह भोगकी तादृशेनैव भाव्यमिति १५ चिति चिद्रूपे ब्रह्माण तन्मात्रेण चिन्मात्रेण रूपेण कामान् भुङ्क्ते न तु विग्रहेण । श्रुतौ जीवस्य तथात्वस्यानुक्तेः । पूर्णानन्दत्वाद्भगवतस्तत्संबन्धेन तदानन्दमनुभवतीत्यर्थः संपद्यते । चिदात्मत्वं जीवस्य यतो नैसर्गिकमित्यौडुलोमिराचार्यों मनुते । अशरीरं वाव ( छां. ८।१२।१ )
इति श्रुतिरेतादृशान्यविषयिणीति ज्ञेयम् । मुक्तिदशायां तदनुभवस्य २० भगवदिच्छाविषयत्वाभावान्न तथा । तथा चैतदेतज्जातीयकानन्दानुभवोस्य
भवत्विति भगवदिच्छैव श्रुतौ कामशब्देनोच्यते ॥ ४।४६ ॥ एवमप्युपन्यासातू पूर्वभावादविरोधं बादरायणः ॥४॥४॥७॥
परमाचार्यो बादरायणस्तु नैवं मनुते । ब्रह्मविदाप्नोति परमित्यस्योपन्यास एवमपि विग्रहवत्त्वेनापि कृतो यतः । तथाहि । यो वेद २५ निहितं गुहायाम् (ते. २।१ ) इत्यत्र गुहाया उक्तत्वात्तस्या विग्रह
एव संभवात् । किंच । प्रथमान्तोपस्थितत्वेन प्राप्नोतीत्युक्त्वा च ब्रह्मविदः