________________
३४७
२ ब्राह्माधिकरणम् । [अ. . पा. सू. ५ अत्रोपक्रमे-ब्रह्मविदाप्नोति परम् (ते. २११) इति वाक्येन परप्राप्तिलक्षणां मुक्तिं प्रतिज्ञाय हि तद्विवृतिरेव सोभुत इत्यादिना क्रियते। तेन पुष्टिमार्गीयमुक्तिरूपत्वमेव तस्याशनस्य सिध्यत्यतोपि हेतोस्तदाविर्भावस्य न लौकिकत्वं न चावृत्तिरूपत्वमित्यर्थः ॥ ४।४।२।।
आत्मा प्रकरणात् ॥ ४॥४॥३॥ ननु परस्य ब्रह्मणो निर्गुणत्वकामभोगस्य गुणसाध्यत्वात्सह ब्रह्मणेत्यत्र ब्रह्मपदं सगुणतत्परमतो न तस्य मुक्तिरूपत्वमित्यत आह । अत्र ब्रह्मपदेनात्मा व्यापको मायातद्गुणसंबन्धरहितो यः स एवोच्यते। कुतः । प्रकर
णात् । ब्रह्मविदाप्नोति परम् (तै. २।१) इत्युपक्रम्य तत्पाठाद् गुणाती१० तस्यैवैतत्प्रकरणमिति तदेवात्र ब्रहाशब्देनोच्यत इत्यर्थः ॥ ४।४।३॥
अविभागेन दृष्टत्वात् ॥ ४।४।४॥ ननु-ब्रह्मविदाप्नोति परम् (ते. २।१) इति भिन्नं वाक्यम् ऋग्मिन्नातो नैकं प्रकरणमिति सगुणमेव तत्र ब्रह्मपदेनोच्यत इत्याशक्य
पतिवदति । पूर्ववाक्येन समविभागैनैवेयमृक् पठिता न तु विभागेन । १५ कुतः । दृष्टत्वात् । ब्रह्मविदिति वाक्यानन्तरं तत्पूर्वोक्तमर्थं प्रतिपाद्यत्वेना
भिमुखीकृत्यैषमुक्तति श्रुतिदृश्यते । तदेषाभ्युक्तेति । तेन पूर्ववाक्योक्तार्यमधिकृत्यैवर्गुच्यत इति गुणातीतमेव तदत्र वाच्यमित्यर्थः ॥ ४।४।४।१ ।।
२ ब्राह्माधिकरणम्। ब्राह्मण जैमिनिरुपन्यासादिभ्यः ॥ ४॥४॥५॥ २० पूर्वेण मुक्तो जीवो भगवदनुग्रहातिशयेच्छातो बहिराविर्भूतो गुणा
तीतेन पुरुषोत्तमेनैव सह सर्वान् कामानभुत इति सिद्धम् । अथ तत्रैवेदं विचार्यते । आविर्भूतो जीवः प्राकृतेन शरीरेण भुङ्क्त उताप्राकृतेनेति । तत्र भोगस्य लौकिकत्वे तदायतनस्यापि तादृशेनैव भवितव्यमिति मन्वानं
प्रत्याह । बाह्मण ब्रह्मसंबन्धिना ब्रह्मणा भगवतैव स्वभोगानुरूपतया २५ संपादितेन सत्यज्ञानानन्दात्मकेन शरीरेण पूर्वोक्तानश्नुत इति जैमिनि