________________
२. पा. ३ . १७ ]
अणुभाष्यम् ।
३४६
ज्ञानमार्गीयाणामक्षरप्राप्तिरेव । भक्तानामेव पुरुषोत्तमप्राप्तिरिति सिद्धम्
॥ ४।३।१७ ॥ ५॥
२०
इति श्रीवेदव्यासम तवर्तिश्रीवल्लभाचार्यविरचिते ब्रह्मसूत्राणुभाष्ये चतुर्थाध्यायस्य तृतीयः पादः || ४ | ३ ||
१०
संपद्याविर्भावः स्वेन शब्दात् ॥ ४|४|१ ॥ ब्रह्मार्वदाप्नोति परम् (तै. २ ।१ ) इत्युपक्रम्य - सोनुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता ( . २ ।१ ) इति तैत्तिरीयके पठ्यते । तत्रेदं संदिह्यते । किमन्तःस्थित एवाश्रुते । उत पुनर्जन्म प्राप्नोति । तत्रान्त्यस्त्वनुपपन्नः । न स पुनरावर्तते (का. २) तेषामिह न पुनरावृत्तिरस्ति (बृ. ६।२।१५) इत्यादि श्रुतिविरोधात् कर्माभावाच्चेति प्राप्ते प्रतिवदति । संपद्य ब्रह्म संपद्यापि स्थितस्य जीवस्य प्रभोरत्यनुग्रहवशाद् रूपात्मकभजनानन्ददित्सायां तत्कृत आविर्भावो भवत्येव । भगवदधीनत्वज्ञापनायास्य १५ तत्र कर्तृत्वं नोक्तम् । ननूक्तं-न स पुनरावर्तते (का. २) इत्यादिश्रुतिविरोधः कर्माभावश्च बाधक इत्यत आह । स्वेनेति । स्वशब्दोत्र भगवद्वाची । तथा च भगवत्स्वरूपबलेनैवाविर्भाव इत्यर्थः । एवं सत्युक्त श्रुतिमर्यादामार्ग विषयिणीति न विरोध इति भावः । तेषामिह प्रपञ्चे न पुनरावृत्तिरस्तीति हि श्रुतिराह । लीलायाः प्रपञ्चातीतत्वात् तत्राविर्भावस्य निषेधाविषयत्वादपि न विरोधः । अत्र प्रमाणाकाङ्क्षायामाह । शब्दादिति । सोश्नते सर्वान् कामान् सह ब्रह्मणा विपश्चिता ( तै. २1१ ) इति श्रुतिः पुरुषोत्तमेन सह सर्वकामभोगं वदति । स च न विग्रहं विना संभवतीति श्रुतिबलादेव तथा मन्तव्यमित्यर्थः || ४|४|१ ॥
२५
अथ चतुर्थाध्याये चतुर्थः पादः । १ संपद्याविर्भावाधिकरणम् ।
हेत्वन्तरमाह ।
0
मुक्तः प्रतिज्ञानात् ॥ ४।४।२ ॥