________________
५ विशेषाधिकरणम् ।
[ अ. पा. ३ सू. १७
सान्निध्याक्क्षरमेवाप्नोति । एतावानर्थो यो वेदेत्यन्तयर्चोक्तः । अथ परमाप्नोतीत्यस्यार्थ उच्यते निहितमित्यादिना । अत एव मध्ये क्रियापदमुभयसंबन्धित्वज्ञापकमुक्तम् । तत्प्राप्तिश्व मर्यादापुष्टिभेदेन द्वेधा । तत्रादौ मर्यादायामुच्यते । इहायमाशयो ज्ञेयः । नायमात्मा प्रवचनेन (मुं ३ |२| ५३ ) इति श्रुत्या भगवद्वरणातिरिक्तसाधननिरासः क्रियते पुरुषोत्तमप्राप्तौ । एवं सत्यक्षरब्रह्मज्ञानस्य तत्साधनत्व उच्यमाने तद्विरोधः स्यात् । तेनैवमेतदर्थो निरूप्यते । ज्ञानमार्गीयाणामक्षरज्ञानेनाक्षर प्राप्तिस्तेषां तदैकपर्यवसायित्वात् । भक्तानामेव पुरुषोत्तमपर्यवसायित्वात् । तदुक्तं भगवद्गीतासु - एवं सततयुक्ता ये (भ. गी. १२/१ ) इति प्रश्ने - मय्यावेश्य मनो ये माम् १० (भ.गी. १२/२ ) ये त्वक्षरमनिर्देश्यम् । (भ. गी. १२ । ३) श्रीभागवते
1
च - भक्त्याहमेकया ग्राह्य : (भा. ११।१४ २१ ) तस्मान्मद्भक्तियुक्तस्येत्युपक्रम्य-न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेदिह ( भा. ११/२०/३१ ) इत्यादिना । तथा च ब्रह्मविदं चेद्भगवान् वृणुते तदा भक्तिरुदेति । तत्प्रचुरभावे सति स्वयं तद् हृदि प्रकटीभविष्णुः स्वस्थानभूतं व्यापिवैकुण्ठं १५ तद्गुहायां हृदयाकाशे प्रकटीकरोति तत् परमव्योमशब्देनोच्यते । अलौकिकप्रयोगेण तस्यालौकिकत्वं ज्ञाप्यते । यथा स्वस्थापितं वस्त्ववश्यं दर्शनयोग्यं भवति तथात्र भगवानपीति ज्ञापनाय निहितमित्युक्तम् । तथा च परमाप्नोतीति पदविवृतिरूपत्वादस्य गुहायां परमे व्योम्नि निहितं यो वेद स नास्य प्राणा उत्क्रामन्तीहैव समवलीयन्ते ब्रह्मैव सन् ब्रह्मोपैति (बृ. ४|४| २० २२ ) इति श्रुत्युक्तरीत्या परमाप्नोतीत्यर्थः संपद्यते । अथ शुद्धपुष्टिमार्गेङ्गीकृतस्य व्यवस्थामाह । सोश्नुते ( तै. २ ।१ ) इत्यादिना । अत्रायमभिसंधिः । यथा स्वयं प्रकटीभूय लोके लीलां करोति तथात्यनुग्रहवशात् स्वान्तःस्थितमपि भक्तं प्रकटीकृत्य तत्स्नेहातिशयेन तद्वशः सन् स्वलीलारसानुभवं कारयतीति स भक्तो ब्रह्मणा परब्रह्मणा पुरुषोत्तमेन सह सर्वान् २५ कामानश्रुत इति । चकारादुक्ता श्रुतिः स्मृतयश्र्व संगृह्यन्ते । एवं सति
३४ ·
17- C reads स्वदर्शन for दर्शन ।
[ अणुभाष्य ]