________________
अ. पा. 3 सू. १६] अणुभाग्यम् । क्त्यविरोधाय तत्राप्यप्रतीकत्वमूरीकार्यम् । अन्यथा पञ्चाग्निविद्यानिरूपिकां श्रुतिं पश्यन्नेवं स न वदेत् । न चौत्सर्गिक पक्षमाश्रित्य तथोक्तमिति वाच्यम् । तस्य बाधकापनोद्यत्वाद्वचनस्य चोक्तन्या
येनाबाधकत्वात् । यत्र वचनस्य बाधकत्वमुच्यते तत्र बाधबोधकत्वमेव । ५ न तु तथात्वमित्युपेक्षणीयास्ते । ननु मनःप्रभृतीनां शुद्धब्रह्मत्वेमनो ब्रह्मोपास्ते इति वदेन तु प्रकारवाचीतिशब्दशिरस्कं ब्रह्मपदमत उपासनाप्रकारावच्छेदकत्वमेव ब्रह्मपदस्य न तु स्वरूपनिरूपकत्वमिति चेद् हन्तेदं शब्दार्थानवगमविजृम्भितमेव । यतो मन उपास्स्वेत्युक्त्वा तदुपासनाफलं यावन्मनोगतं तत्रास्य कामचारो भवतीति वदिष्यं१. स्तदुपासनाया एतत्फलसाधकत्वे प्रयोजकरूपाकाङ्क्षायामाह । मनो ब्रह्मेति।
इति शब्दोत्र हेतुत्ववाची। तथा च यतो मनो ब्रह्मातो हेतोस्तदुपासनं तादृक्फलसाधकमित्यर्थः । अत एव मनो हि ब्रह्म मन उपास्स्वेति पूर्वमुक्तम् । सर्वत्रैवमेव ज्ञेयम् ॥ ४॥३॥१६॥ ४ ॥
५ विशेषाधिकरणम्। विशेष च दर्शयति ॥४॥३॥१७॥ सर्वाण्युपास्यानि रूपाणि ब्रह्मरूपाण्येवेति तदुपासकानां परमाप्तिरेवेति सिद्धम् । तत्रेदं चिन्त्यते । ज्ञानमार्गीयाणां भक्तिमार्गीयाणां चाविशेषेणैव परप्राप्तिरुत कश्चिद्विशेषोस्तीति । तत्रोभयोरपि ब्रह्मोपासकत्वेना। विशेषेणैव फलं भवतीति प्राप्ते प्रत्याह । विशेषं च श्रुतिदर्शयति । १. तैत्तिरीयके पठ्यते । ब्रह्मविदाप्नोति परम् ( तै. २।१ ) इति गूढाभिसंधिना सामान्यत एतावदुक्त्वा गूढं तमुद्बाटयन्त्यतिगोप्यत्वमस्मिनर्थेनुभवैकवेद्यत्वं च ज्ञापयन्त्याह-तदेषाभ्युक्ता । सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् । सोभुते सर्वान् कामान्
सह । ब्रह्मणा विपश्चिता (तै.२।१) इति । तत्पूर्वोक्तं प्रतिपाद्यत्वेना२५ भिमुखीकृत्यैषमुक्ता तदनुभवकर्तभिरिति शेषः । ब्रह्मविदक्षरब्रह्मविदाप्नोति