________________
४ अप्रतीकाधिकरणम् । [ अ. ४पा. सू. १६ वाक्यादिच्छरमात्रेण तद्भोगकरणानन्तरं प्राचीनभगवद्भजनलक्षणक्रतुश्र्व नीयत इत्यर्थः। वस्तुतस्तु भक्तस्यामानवपुमपेक्षाभावात् स्वयमेव ब्रह्मलोकान् प्राप्नोतीति ज्ञापनाय प्रथमान्त उक्तः । ननु ब्रह्मणोधिकं न किंचिदस्ति । न तत्समश्वाभ्यधिकश्च दृश्यते (श्वे. ६।८) इति श्रुतेः । एवं सति च्छान्दोग्य ५ सनत्कुमारनारदसंवादे - स यो नाम ब्रह्मेत्युपास्ते (छां. ७११।१) इत्यादिना नामवाङ्मनः संकल्पचित्तध्यानविज्ञानादीनां ब्रह्मत्वेनोपासनमुत्तरोत्तरं पूर्वस्मात् पूर्वस्माद् भूयस्त्वं चोच्यतेतो न ब्रह्मत्वं सर्वेषामुपास्यानां वक्तुं शक्यमिति चेत् मैवम् । विभूतिरूपाणां नियतफलदातृत्वाद् येन रूपेणाल्पफदानं तत्राधिकगुणप्राकट्ये प्रयोजनाभावात् तावन्मात्रगुणप्रकटनं येन रू १० पेण ततोधिकफलदानं तत्र ततोधिकगुणप्रकटनमिति पूर्वस्मादाधिक्यमुच्यते। एवमेव सर्वत्र । नियतफलदानं तु स्वतन्त्रेच्छत्वाल्लीलारूपमिति नानुपपन्नं किंचित् । प्रतिमादिष्वावाहनेन संनिहिते विभूतिरूपे तद्भावनं पूजामार्गे । भक्तिमार्गे तु भक्त्या तत्र प्रकटे तथा । गुरौ तु शाब्दे परे च निष्णातं ब्रह्मणीति विशेषणवत्त्वेन भगवदावेशात् तत्र तद्भावममिति सर्वमवदातम् । १५ अपि च बादरिजैमिनिमतोक्त्यनन्तरं स्वमतोक्त्या तत्समानविषयत्वमत्रापीत्यवगम्यते । तत्र च कार्यब्रह्मलोकप्राप्तिपरब्रह्मप्राप्तिीविषयत्वमुक्तं पूर्वोत्तरपक्षभेदेन | बादरिमते सविशेषस्यैवोपास्यत्वाद्विशेषाणां चाविद्यकत्वादुपासनानां सर्वासां प्रतीकतद्रूपत्वमेव सिध्यति । एवं सत्यप्रतीकालम्बनान्नयतीति वदता व्यासेन बादरिमतानुसारिण उपासकस्य न कस्यापि ब्रह्मप्राप्तिरिति ज्ञाप्यते । वस्तुतस्तूपासनायामुपास्यस्वरूपज्ञानस्याप्यङ्गत्वात्तन्मतीयानामुक्तरीत्या तदभावेन निरङ्गत्वादर्चिरादिप्राप्तिरपि न संभवति किं पुनर्ब्रह्मण इति निगूढाशयो व्यासस्य । एवं सति परप्राप्तावे - वोपोलकमुक्तं भवतीति सैव व्यासाभिमतेति सिद्धम् । ये तु प्रतीकेष्वनह्मऋतुत्वं वदन्तः पञ्चाग्निविद्यायास्तथात्वेपि वचनबलात् तद्वतो ब्रह्मप्राप्ति - २५ रिति वदन्ति । तत्रेदमुच्यते । वचनं तु वस्तुसतः पदार्थस्य बोधकं न तु कारक्रमतस्तच्चेद् बोधयति तदाप्रतीकालम्बनान्नयतीति व्यासो
•
३४३
२०
•
25- C reads वस्तुतः for वस्तुसतः ।