________________
अ. ४ पा. ३ . १६]
अणुभाष्यम् ।
४ अप्रतीकाधिकरणम् ।
अप्रतीकालम्बनान्नयतीति बादरायण उभयथा दोषात्त
ऋतुश्च ॥। ४।३।१६ ॥
क्रममुक्त्याधिकारिणः प्रारब्धं मुक्त्वामानवेन पुरुषेण प्रापिताः पर५ मेव ब्रह्म प्राप्नुवन्तीति सिद्धम् । तत्रेदं संदिह्यते । अर्चिरादिलोकप्राप्तिर्ह्यपासनाविशेषफलम् । एवं सत्यमानवः पुरुषस्तान् सर्वान् ब्रह्म प्रापयत्युत कांश्विदेवेति । किमत्र युक्तम् । सर्वानेवेति । यतोर्चिरादिमार्गगतानामन्ते ब्रह्मप्रापणार्थमेव स नियुक्तस्ततोन्यथाकरणे हेत्वभावात्तथैव स कर्तेति प्राप्ते ।
३४२
१०
उच्यते । श्रुतौ ब्रह्मत्वेनैव सर्वत्रोपासनाया उक्तत्वादुपास्येषु भगवद्विभूतिरूपत्वेन शुद्धब्रह्मरूपेष्वप्यतथात्वं ज्ञात्वा श्रुतिर्ब्रह्मत्वोपासनायाः फलसाधनत्वं वदति । न तूपास्ये ब्रह्मतामपीति मन्वाना य उपासते ते प्रतीकालम्बना इत्युच्यन्ते । तथा च सत्यपि वेदविहितत्वेनोपासनायाः कृतत्वेन सफलत्वात् तत्फलकत्वेनोपासकानामर्चिरादिलोकप्राप्तावपि तान१५ मानवः पुरुषो ब्रह्म न प्रापयति किंतु शुद्धब्रह्मत्वं ज्ञात्वा य उपासते तानेव ब्रह्म प्रापयतीति बादरायण आचार्यो मन्यते । तत्र हेतुमाह । उभयथा दोषादिति । वस्तुतो यद्ब्रह्मरूपं तत्राब्रह्मत्वनिश्चय उपासनार्थं च ब्रह्मत्वेन भावनमेवमुभयथा करणे दोषः संपद्यत इति तस्य न ब्रह्मप्राप्तावधिकारोस्तीति युक्तं तदनयनमित्यर्थः । तथा च श्रुतिः । असन्नेव २० स भवति । असद् ब्रह्मेति वेद चेत् ( तै. २।६ ) इति । योन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते । किं तेन न कृतं पापं चौरेणात्मापहारिणा इति । एवं ज्ञानमार्गीयव्यवस्थामुक्त्वा भक्तिमार्गीयस्यापि तामाह । तत्क्रतुश्चेति । सर्वं मद्भक्तियोगेन (भा. ११।२१।३३) इति वाक्यान्न तस्योपासनापेक्षेति न प्रतीकादिसंभावना । तत्र कथंचिद्यदि वाञ्छतीति
11-D reads ब्रह्मत्वेन for ब्रह्मत्व |