________________
३४१
३ कार्याधिकरणम् |
[ अ. ४ पा. ३ १५
त्वाच्च तद्द्व्यपदेशः ( ब्र. सू. २।३।२९ ) इत्याद्यधिकरणैः श्रुत्यर्थनिर्णयेन ब्रह्मणि विशेषाणामौपाधिकत्वस्य जीवपुरुषोत्तमाभेदस्य च पुरस्तादेव निरस्तत्वात् । न च व्यापकत्वं गन्तव्यत्वे बाधकम् । प्रारधभोगं विना तत्प्राप्त्यसंभवाद् यदा यत्र तद्भोग समाप्तिस्तदा तत्र ५ तत्प्राप्तेर्निष्प्रत्यूहत्वात् ।
किंच । उपास्यरूपाणां सर्वेषां निर्गुणत्वमेवोपासकस्य । परं सगुणत्वेन तत्तारतम्यात् फलतारतम्यम् | यस्तु भगवदनुग्रहेण प्राकृतगुणरहितोभूत् स निर्गुणब्रह्मविद्यावानित्युच्यते । तादृशस्यैव मुक्तिप्रकारद्वयमुक्तं सद्येामुक्तिक्रममुक्तिभेदेन । न तस्मात्प्राणा उत्क्रामन्त्यत्रैव समव१० लीयन्ते ब्रह्मैव सन् ब्रह्माप्येति (बृ. ४/४/२२ ) इत्यादिश्रुतिस्तु प्रारब्धरहितविषया । निर्गुणब्रह्मविद्यावतोपि प्रारब्धभोगस्तु त्वयापि वाच्योन्यथा प्रवचनासंभवेन ज्ञानमार्ग एवोच्छिद्येत । ते ब्रह्मलोके तु परान्तकाले (मुं. ३।२।६ ) इति श्रुतिरपि परान्तकाल एव येषां प्रारब्धभोगसमाप्तिस्तद्विषयिणीति मन्तव्यम् । अन्यथा वेदान्तविज्ञानेत्याद्यु१५ क्तधर्मविशिष्टानां मुक्तौ विलम्बो नोपपद्यत इति दिक् ॥ ४।३।१४ ॥
न च कार्ये प्रतिपत्त्यभिसंधिः ॥ ४३।१५ ॥
1
अपि च-ब्रह्मविदाप्नोति परम् (तै २१ ) इति संक्षेपेणोक्त्वा तदेषाभ्युक्ता इति तद्विवरिकामृचं प्रस्तुत्य सोता । सत्यं ज्ञानमनन्तं ब्रह्म यो वेद निहितं गुहायाम् परमे व्योमन् । सानुते सर्वान् कामान् सह २० ब्रह्मणा विपश्चिता (तै २1१ ) इति । अत्रोपक्रमानुरोधेन परेणैव ब्रह्मणा सह सर्वकामभोगलक्षणा प्रतिपत्तिरुच्यत इति कार्यरूपे वस्तुमात्रे प्रतिपतिर्न क्वापि श्रुतेरभिप्रेतातोत्रापि परमेव ब्रह्मपदेनोच्यते । ऋगर्थस्त्वानन्दमयाधिकरणे प्रपञ्चित इति नात्रोक्तः || ४ | ३ | १५ ॥ ३ ॥
15- M, A and C read नोपपद्येत for नोपपद्यते ।