________________
अ. पा. ३ सू. १४ ]
अणुभाष्यम् ।
३४०
ब्रह्मलोकप्राप्तिं दर्शयति । न हि तत्र ब्रह्मलोकशब्देन कार्यः स उच्यत इति वक्तुं शक्यम् । पार्थक्येन प्रजापतिलोकस्योक्तत्वात् । अपरं च ये चेमेरण्ये श्रद्धातप इत्युपासते तेर्चिषमभिसंभवन्ति ( छां. ५।१०।१ ) इति छान्दोग्यश्रुतिं विषयीकृत्य हार्चिरादिना तत्प्रथिते: ( ब. सू. ४/३/१ ) ५ इत्युपक्रम्याचार्येण कृतोन्यत्रार्चिः शब्दस्याभावात् । तत्र चान्ते ब्रह्म गमयतीत्युच्यते । तथा च छान्दोग्येनुक्तानामन्यत्रोक्तानां लोकानां मार्गेक्यसिध्यर्थं तत्रैव संनिवेशो वायुमन्दात् । तडितोधिवरुण: ( ब्र. सू. ४ | ३ | ३ ) वरुणाञ्चाधीन्द्रप्रजापती ( ब. सू. ४/३/४ ) इत्यन्तेनोक्तः । एवं सत्यादावर्चिषं ततोहस्ततः सितपक्षं ततः संवत्सरं ततो वायुं ततो १. देवलोकं तत आदित्यं ततश्चन्द्रमसं ततो विद्युतं ततो वरुणं तत इन्द्रं ततः प्रजापतिं ततश्चामानवेन पुरुषेण ब्रह्मप्राप्तिरिति निर्णयः संपद्यते । एवं सति प्रजापतिलोकादन्यस्य कार्यब्रह्मलोकस्यासंभवात् तच्छङ्कापि भवितुं नार्हति यद्यपि तथापि व्यासोक्तमार्गैक्यममन्वानस्तथावददिति ज्ञायते । परंतु वेदार्थनिर्णयार्थमेव प्रवृत्तत्वाद् भगवदवतारत्वाच्च तदुक्त१५ एव शास्त्रार्थ इति मन्तव्यम् । किंच स प्रजापतिलोकं स ब्रह्मलोकम् ( कौ. १1३ ) इत्यत्र ब्रह्मपदस्य परवाचकत्वं तेनापि वाच्यं चेत् तद्दृष्टान्तेनान्यत्रापि तथैव वाच्यम् । बाधकाभावात् ।
१०
1
ननु परस्य व्यापकत्वान्निर्विशेषत्वाच्च न गन्तव्यतीपपद्यते । जीवस्याप्यविद्योपाध्यवच्छिन्नतादशायां परब्रह्मणि गन्तृत्वासंभवात्तन्नाशे च २० वस्तुतोभिन्नत्वात् स्वरूपेणावस्थानमेव भवतीति न गन्तृत्वमप्युपपद्यते । तस्यैवाभावात् । जीवत्वदशायां तूपाध्यवच्छेदाद गन्तृत्वं जीवस्यापरस्य ब्रह्मणश्चाविद्यकरूपनामवत्त्वेन गन्तव्यता चोपपद्यते । उपासनाफलत्वादस्य गमनस्योपास्यस्य च सगुणत्वेन तत्प्राप्तेरेवाचितत्वाच्च निर्गुण ब्रह्मविद्यावतो गन्तृत्वासंभव इत्युक्तमतो बादरिमतमेव साधीयः । न च ब्रह्मपदस्य २५ मुख्यार्थत्वमुक्तरीत्यात्र संभवत्यतोत्रामुख्यार्थत्वमेवानुसर्तव्यमिति चेत् । स्यादेतदेवं यद्यौपाधिकमुपास्यरूपं जीवत्वं वा स्याद् नत्वेवम् । प्रकृतैतावत्त्वं हि प्रतिषेधति ( ब. स. ३/२/२२ ) इत्यादिभिः तद्गुणसार