________________
कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ॥ ४ | ३ |११ ॥
कल्पसमामौ कार्यस्य ब्रह्मलोकस्य नाशे सति तदध्यक्षेण चतुर्म५ खेन ब्रह्मणा सहातो ब्रह्मणः सकाशात्परमीश्वरं प्राप्नोत्यतोपुनरावृत्तिश्रुतिर्न विरुध्यते । अत्र प्रमाणमाह । अभिधानादिति । श्रुतौ तथाभिधानादित्यर्थः । सा तु - वेदान्तविज्ञान सुनिश्चितार्थाः संन्यासयोगाद् यतयः शुद्धसत्त्वाः । ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्व (मुं. ३ २ ६ ) इति । परान्तकाल इत्यत्र परशब्देन ब्रह्मणः पूर्णमायुरुच्यते || ४ | ३|११ ॥
उक्तेर्थे श्रुतिं प्रमाणत्वेनोक्त्वा स्मृतिमप्याह ।
१०
३३९
३ कार्याधिकरणम् |
[ अ. पा. ३ सू. १८
इति वाक्यात्ततः पुनरावर्तते । अत्र तेषामिह न पुनरावृत्तिरस्तीति पठ्यत इति परमेवात्र ब्रह्मशब्देनोच्यत इति प्राप्त उत्तरं पठति ।
१५
स्मृतेश्व || ४ | ३|१२ ॥
ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसंचरे
प्रविशन्ति परं पदम् इति स्मृत्यापि स एवार्थः प्रतिपाद्यते
अत्र सिद्धान्तमाह ।
परस्यान्तं कृतात्मानः
४।३।१२ ॥
परं जैमिनिर्मुख्यत्वात् ॥ ४।३।१३ ॥
स एतान् ब्रह्म गमयति ( छां. ४/१५/५ ) इत्यय ब्रह्मपदेन परमेव ब्रह्मोच्यते । इति जैमिनिराचार्यो मन्यते । कुतः मुख्यत्वात् । बृहत्त्वादिधर्मविशिष्टं हि ब्रह्मपदेनोच्यते । तादृक् परमेव ब्रह्म भवतीति २० मुख्या वृत्तिर्ब्रह्मपदस्य परस्मिन्नेवान्यत्र गौणी । तथा च मुख्यगौणयोर्मध्ये मुख्यस्यैव बलिष्ठत्वात् तथा ॥ ४।३।१३ ॥
दर्शनाच्च ||४|३|१४||
स एनं देवयानं पन्थानमापद्याग्मिलोकमागच्छति स वायुलोकं स वरुणलोकं से इन्द्रलोकं स प्रजापतिलोकं समझलोकम् (क. ११३) इति २५ कौषीतकिरमचादिलोकाभिवदविशेषेणैव प्रजापतिलोकप्राप्त्यनन्तरं