________________
अ. ४ पा. ३ सु. ७
अणुभाष्यम् !
३३८
छान्दोग्ये तु ब्रह्मेति । तत्रायं भावः । भक्तं तु वैकुण्ठलोकं नयति से बहुविधा इति ब्रह्मलोकानित्युक्तम् । ज्ञानमार्गीय त्वक्षरं ब्रह्म प्रापयतीति ब्रह्मेत्युक्तम् । अत एवोभयव्यामोह उक्त आचार्येण || ४|३|७ ॥ २ ॥
३ कार्याधिकरणम् ॥
अत्र सिद्धान्तदादर्थमुक्तमर्थं हस्तपिहितमिव कृत्वा बादरिमतं पूर्वपक्षत्वेनाह ।
कार्य बादरिरस्य गत्युपपत्तेः || ४ | ३|८ ॥
स एतान् ब्रह्म गमयति ( छां. ४ । १५५५ ) इत्यत्र ब्रह्मपदेना - विकृनं परमेव ब्रह्मोच्यते । उत कार्यरूपो महालोक इति भवति संशयः । • परस्य व्यापकत्वेन देशविशेष गमयित्रोरनपेक्षितयोरुतेः कार्यरूप एव स ब्रह्मपदेनोच्यत इति बादरिराचार्यों मन्यते । कुतः । अस्य गत्युपपत्तेः । तस्य परिच्छिन्नत्वेन तत्स्थितिदेशं प्रत्यस्य गन्तुर्गतेरुपपत्तेरित्यर्थः || ४ | ३ |८|| विशेषितत्वाच || ४|३|९ ॥
ब्रह्मलोकान्गमयति ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति १५ ( बृ. ६ २१५ ) इति श्रुतौ बहुत्वेन वासाधिकरणत्वेन च विशेषिता लोकाः । गन्तारश्च दूरदेशगत्या विशेषिता इति न परं ब्रह्म तत् । किंतु कार्यमेवेत्यर्थः । लोकपदं तज्जन्यभोगपरम् । तेन तस्यैकत्वेपि विविधभोगज्ञापनाय बहुवचनं घटते ॥ ४३९ ॥
तत्र ब्रह्मशब्दप्रयोगे हेतुमाह ।
૨૦
सामीप्यात्तु तद्यपदेशः ॥ ४३॥१० ॥
तल्लोकस्थितानां नान्यलोकव्यवधानं परप्राप्तौ किंतु तत एंवेति परब्रह्मसामीप्याद् ब्रह्मत्वेन व्यपदेशः कृतः । तुशब्दस्तु वस्तुतो ब्रह्मत्वं व्यवच्छिनत्ति || ४|३|१० ॥
ननु-आबल्लभुवनाल्लोकाः पुनरावर्तिनोर्जुन ( भ.गी. ८/१६ )