________________
३३७
२ आतिवाहिकाधिकरणम्।
[अ. पा. . सू. ७
उभयव्यामोहात्तत्सिद्धेः ॥ ४॥२६॥ अत्रेदं ज्ञेयम् । देवयानः पन्था अपि भगवतैव सृष्टोस्ति । तथा चोक्तहेतुभिस्तत्र कस्यापि कामनाभावे तत्सृष्टिकर्था स्यादतो भगवानव कांश्च व्यामोहयति ज्ञानिनो मर्यादामागीयभक्तांश्चातस्तत्कामनासिद्धेस्त५कलभोग इति । यत्त्वर्चिरादिमार्गगन्तृणां देहवियोगेन संपिण्डितकरणग्रामत्वेनास्वातन्त्र्यं व्यामोहः । अचिरादीनां चाचेतनत्वेनास्वातन्त्र्यं व्यामोहः । कार्यकरणासामर्थ्यमिति यावत् । तेनार्चिरायधिष्ठातृदेवैरतिवाह्यन्त इति सिद्धमिति व्याख्यानम् । तन्न साधीयः । व्यामोहशब्द
स्यान्यथाज्ञानवाचकत्वेनासामर्थ्यावाचकत्वात्। तथा सत्यचिोकमपि न १० प्राप्नुयात् । पापकाभावादित्युक्तम् ॥ ४॥३॥६॥
ननु विद्युतो वरुणादिलोकप्राप्त्यनन्तरं यस्य ब्रह्मप्राप्तिस्तस्य तल्लोकसंबन्धी ब्रह्मपापकः पुरुषोस्त्युत स स्वत एव तत्प्राप्नोतीति संशय उत्तरं पठति।
वैद्युतेनैव ततस्तच्छ्रुतेः॥४॥३७॥ ५ नहि ब्रह्मप्राप्तिर्विद्युल्लोकसंबन्धिपुरुषसामर्थेनोच्यते। किंतु ब्रह्मसंबन्धितत्सामर्थेन । तथा च यत एव लोकात्तत्मानिस्ततो ब्रह्मसंबन्धिपुरुषादेव । एवं सति विद्युल्लोकात्तत्प्राप्तौ यो ब्रह्मसंबन्धी पुरुषः प्रापक उक्तस्तेनैव ततो वरुणादिलोकेभ्योपि ब्रह्मप्राप्तिस्तत्र हेतुमाह । तच्छृतेः । तान्
वैद्युतान्पुरुषोमानस एत्य ब्रह्मलोकान् गमयति (बृ. ६।२।१५) इति श्रुतेः । २. अत्रैत्येति वचनाद्यत एव लोकाद् ब्रह्मप्राप्तिर्भवित्री तत्रैवागत्य ब्रह्म प्रापय
तीति गम्यते। श्रुतौ वैद्युतं लोकमागत्य तस्माद् ब्रह्मलोकान् गमयतीत्युक्तमिति स पुरुषो वैद्युत इत्युच्यते न तु तल्लोकवासित्वेन। तथा सत्येत्येति न वदेत् तत एव ब्रह्मप्रापणे। अत एव मानस इत्युक्तः । भगवन्मनसि भवत्य
थैनं मां प्रापयत्विति तदैव प्रापयतीति तथा। २५ छान्दोग्ये नमानव इति पठ्यते । तच्चालौकिकत्वं तदप्युक्तरूपभेवेति न कश्चिद्विशेषः । वाजसनेयके ब्रह्मलोकान्गमयतीति पठ्यते ।
3 [अणुभाष्य ]