________________
मं.पा. सू. ५]
अणुभाष्यम्
धकश्रुतिविरोधश्व स्यात् । तथा च यत्रातिवाहिकश्रुतिर्नास्ति तत्राप्यातिवाहिको भगवदीय एव ब्रह्म प्रापयतीति ज्ञेयम् । वस्तुतस्तु बहव एव तादृशाः सन्तीति ज्ञापनाय बहुवचनमत्रोक्तम् । तन्मध्ये कश्चनागत्यैक एव नयतीति ज्ञापनाय श्रुतावेकवचनम् । तत्र हेतुस्तल्लिङ्गात् । तत्पुरुषोमानव इत्यत्र ५ ब्रह्मसंबन्धित्वं लिङ्गमुच्यते । तेनेदं ज्ञाप्यते यथा विद्याबलात् तत्तल्लोकप्राप्तिस्तथैव ब्रह्मप्राप्तिरपीति न किंतु भगवदीयपुरुषानुग्रहेणैवेति । न च पूर्वपूर्वलोकाधिष्ठातृदेवा उत्तरोत्तरलोकं प्रत्यातिवाहिका यथा तथा ब्रह्मप्राप्त्यव्यवहितपूर्वलोकदेवा एव ब्रह्मप्रापका इति तत्पदेन स लोक एवोच्यत इति वाच्यम् । तदेतरलोकेषु तदकथनं यथा तथात्रापि न कथयेत् । १० लोकाधिष्ठातृदेवानामातिवाहिकोक्तावर्चिलों कप्रापकातिवाहिकस्याभावात् तत्प्राप्तिर्न स्यात् । तथा सति देवयानमार्ग एवोच्छिद्येत । अतो यथा विद्याबलेनैवार्चिषः प्रामिस्तथेतरेषामपीति बुध्यस्व । कस्यचिदल्पलोकगत्थनन्तरमेव ब्रह्मप्राप्तिः । कस्यचिद् बहुलोकगत्यनन्तरं सोच्यत इति । भोगभूमित्वमेव तेषामवगन्तव्यम् । सर्वेषां सर्वत्र गमने देवयानं पन्थानं १५ वदन्त्याः श्रुतेः सामितत्कथनमनुपपन्नं स्यादत उपासनाभेदेन फलभेदं ज्ञापयन्ती तथा वदतीति युक्तमुत्पश्यामः || ४ | ३।५ ॥
1
३३६
1
ननु तेषामिह न पुनरावृत्तिरस्तीत्यादिश्रुतिभ्यो देवयानपथं प्राप्तानां पुंसां ब्रह्मवित्त्वमवश्यं वाच्यम् । तेन सद्योमुक्तौ संभवन्त्यां सत्यां क्षयिष्णुत्वेन क्षुद्रानन्दत्वेन च हयानां परमफलप्राप्तिविलम्ब हेतूनामर्चिरा१० दिलोकानां कामना कुतो यतस्तद्धेतुभूतोपासनाः संभवन्ति । किंच । अर्चिरादिना तत्प्रथिते: (ब्र. सू. ४ ३ १ ) इत्यत्र यदुक्तं ज्ञानमार्गीयस्यैवार्चिरादिप्राप्तिर्न भक्तिमार्गीयस्येति तदप्यनुपपन्नम् । यत्कर्मभिर्यत्तपसा ज्ञानवैराग्यतश्च यत् ( भा. ११।२१।३२ ) इत्युपक्रम्य - सर्वं मद्भक्तियो - गेन मद्भक्तो लभतेञ्जसा । स्वर्गापवर्ग मद्धाम कथंचिद्यदि वाञ्छति ॥ २५ ( भा. ११।२१।३३ ) इति भगवद्वाक्याद्भक्तस्याप्येतद्वाञ्छाफले संभवतः । अन्यथा प्रभुर्न वदेत् । एवं सति भक्तिसुखं हित्वान्यत्र कामनायां हेतुर्वाच्य इत्याकाङ्गायां तमाह ।