________________
२ मातिवाहिकाधिकरणम्। [अ. पा. सू.५
न च वायुमब्दादिति सूत्रान्मार्गभेदापत्तिः । देवलोकस्यादित्याधिष्ठेयत्वेनादित्यमध्यपातित्वमभिप्रेत्य छन्दोगश्रुतिस्तथोक्तवती। तदनुसारेण व्यासोप्यतो नानुपपत्तिः ॥ ४॥३२॥
तडितोधि वरुणः संबन्धात् ॥ ४॥३॥३॥ ५ आदित्याञ्चन्द्रमसं चन्द्रमसो विद्युतम् ( छां. ४।१५।५ ) इत्यत्र पठितविद्युल्लोकात्परतो वरुणलोको निवेशनीयः । तत्र हेतुः । संबन्धात् । तडितोप्संबन्धित्वावरुणस्य तत्पतित्वात्तथा ॥ ४॥३॥३॥
वरुणाचाधीन्द्रप्रजापती ॥४॥२४॥
स्पष्टमिदम् । अर्चिरादिपाठे विद्युदनन्तरं तत्पुरुषोमानवः स एतान् १. ब्रह्म गमयति ( छां. ४।१५।५ ) इति पठ्यते । तत्र यस्योपासकस्य वरुणादिलोकगमनापेक्षा नास्ति तमपेक्ष्येति ज्ञेयम् । मानॅक्यनियममभिप्रेत्य सूत्रकारोन्यत्रोक्तानामन्येषामपि लोकानां तत्रैव निवेशनमाह ॥ ४।३।४ ॥ १ ॥
२ आतिवाहिकाधिकरणम् । आतिवाहिकास्तल्लिङ्गात् ॥ ४॥३॥५॥ विद्युदनन्तरं स तत्पुरुषोमानवः स एतान् ब्रह्म गमयतीत्यत्र भवति संशयः । उक्तश्रुतेर्गमयित्रैव ब्रह्मप्राप्तिरिति निश्चीयते । स च विद्युदनन्तरमेव पठ्यते । एवं सति यस्य वरुणादिलोकगमनं तस्य वचनाभावेन
गमयित्रप्राप्तेर्ब्रह्मप्राप्तिर्भवति न वेति । तत्र वाचनिकस्य यावद्वचनत्वात्त२० दभावेन सा न भवतीति प्राप्त आह । आतिवाहिका इति । एतदुक्तं
भवति । यस्योपासकस्य यावत्फलभोगानन्तरं ब्रह्मप्राप्तिर्भाविनी तस्य तावतोगानन्तरं ब्रह्मप्राप्तिर्भवत्यत एव कौषीतकीश्रुतौ प्रजापतिलोकानन्तरं बह्मलोकः पठ्यते । अन्यथा कृतसाधनवैयर्थ्यं तेषां ब्रह्मप्राप्तिसाधनत्वबो
10-M, A and C read तनु for तत्र and a reads तब for the same.