________________
अ. पा. सू. २]
३३४
ततः कर्मोपासनयोरहरादिसंवत्सरान्ते काले विहितत्वात्तत्र तत्र गत्वा भुङ्क्ते । तथा च संवत्सरान्तानां भूसंबन्धित्वेनाविशेषात्तन्मध्ये वायोर्न प्रवेशः। भूलोकादुपर्यन्तरिक्षलोकस्तदुपरि द्युलोकस्तथा च वायुरन्तरिक्षस्याधिपतिः (`तै. सं. ३/४/५ ) इति श्रुतेः सूर्यो दिवोधि५ पति: ( तै. सं. ३ ४ ५ ) इति श्रुतेस्तयोः पौर्वापर्ये विशेषो हेतुरस्तीत्यादित्यलोकात् पूर्वमुक्तरीत्या भूलोकमध्यपातिसंवत्सरस्य परस्ताच्च वायुर्निवेशयितव्य इत्यर्थः । ननु तेर्चिषमभिसंभवन्त्यर्चिषोहरित्यादिश्रुतिरुक्तमुक्तमनूद्यानूद्यापादानत्वं वदन्ती पूर्वोत्तरयोरव्यवधानं सूचयतीति नोक्तमादरणीयमिति चेत् । सत्यम् । यस्योपासकस्य न वायुलोकभोगस्तं १० प्रति सोक्तिर्यस्य तु तद्भोगस्तस्योत्तरीतिर्मार्गेक्यादिति नानुपपत्तिः काचित् । केचित्तु स एनं देवयानं पन्थानमापद्याग्निलोकमागच्छति स वायुलोकं स वरुणलोकम् ( कौ. ११३ ) इत्यविशेषेण वायुरूपदिश्यते । मिथः पौर्वापर्यप्रापकपदाभावात् । यदा वै पुरुषोस्माल्लोकात् प्रैति स वायुमागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्व आक्रमते स १५ आदित्यमागच्छति (बृ. ५/१०/१ ) इति श्रुत्यादित्यात्पूर्वो वायुर्विशेषेणोपदिश्यत इत्यब्दादित्ययोरन्तराले निवेशयितव्य इत्यर्थं वदन्ति । स चिन्त्यते । यथा तेन स ऊर्ध्व आक्रमते स आदित्यमागच्छतीति विशेषोपदेश इत्युच्यते तथा स वरुणलोकमित्यत्रापि वक्तुं शक्यम् । न च स आदित्यमागच्छतीत्यत्र तच्छब्दस्य पूर्वपरामर्शित्वात् वायुलोकगतस्यैव पूर्वत्वात्तथेति वाच्यम् । अमिलोकमागच्छति स वायुलोकं स वरुणलोकम् ( कौ. १ ३ ) इत्यत्रापि तुल्यत्वात् । किंचैवमग्निलोकानन्तरं वायुलोक इत्यपि वक्तुं शक्यमतो विद्वद्भिरुपेक्ष्योयम् । वाजसनेयिनस्तु मासेभ्यो देवलोकं देवलोकादादित्यम् (बृ. ६/२/१५ ) इति पठन्ति । तत्राप्यादित्यात्पूर्वी देवलोकात्परो वायुर्ज्ञेयः । एकत्रादित्यात्पूर्वत्वे सिद्धे मार्गै२५ क्यादन्यत्रापि तथात्वस्य न्यायप्राप्तत्वात् । सूत्रकारेण तु छान्दोग्यश्रुत्य - पेक्षयोक्तं वायुमब्दादिति । एवं सति मासेभ्यः परस्तादब्दनिवेशनं कार्यम् ।
२०
1-ख reads तत्र लोके for तत्र तत्र ।
अणुभाष्यम् ।