________________
३३३
१ अर्चिराद्यधिकरणम् ।
[ अ. पा. सू. १
।
काचिदिति चेत्र वदामः । अर्चिरादिभ्य इत्युक्तं भवेत् त्वद्रीतिरेव चेदभिप्रेता भवेत्तस्मान्नैवमित्यवधार्यते । अर्चिरादिनेत्येकवचनान्यथानुपपत्त्या मार्गस्यैकत्वमवश्यमुररीकार्यम् । एवं सति श्रुतिषु यावन्ति पर्वाण्युक्तानि तानि सर्वाण्येकस्मिन्नेवार्चिरादिमार्गे वर्तमानान्यपि यस्योपासकस्य यावत्पर्वभोगो ५ भावी तं प्रति तावत्पर्वोक्तिर्यस्य यावतां तेषां स न भावी तं प्रति न तदुक्तिस्तद्भोगाभावादिति नानुपपन्नं किंचित् । ननु त्वयाप्यनुक्तानां पर्वणां तत्र स्थितिं वदतोपसंहार एवोक्तो भवति प्रापकत्वेनेति चेत् । स्यादेतदेवं यदि तस्यैव गन्तुर्भोगाय तदपि पर्व तत्रोच्येत । न त्वेवं किंत्वेकवचनानुरोधान्मार्गैक्ये निश्विते यं प्रति यत्पर्वोच्यते तत्तत्र कण्ठेोक्तमेवेति नोपसंहारा१० पेक्षा । अग्रेन्यत्रोक्तानां पर्वणामुक्तस्थले संनिवेशोक्त्यापि सूत्रकाराभिमत एक एव मार्ग इति ज्ञायते । श्रुतौ सर्वत्र पूर्वपरामर्शादपि तथा ४ | ३ | १ ॥ वायुमब्दादविशेषविशेषाभ्याम् || ४ | ३ |२ ||
|
छान्दोग्ये वायुर्न पठ्यते। कौषीतकिश्रुतौ तु स एतं देवयानं पन्थानमापद्याग्मिलोकमागच्छति स वायुलोकं स वरुणलोकं स इन्द्रलोकं स प्रजा१५ पतिलोकं स ब्रह्मलोकम् ( कौ. ११३ ) इति वाय्वादयः श्रूयन्ते । तत्रार्चिषोमेश्वाभेदान्न विचारणीयमस्ति । वायुलोकं कस्माल्लोकाद्गच्छतीत्याकाङ्कायामाह । वायुमब्दादिति । अर्चिषोहरह्न आपूर्यमाणपक्षमा पूर्यमाणपक्षायान् षडुदङ्ङेति मासांस्तान्मासेभ्यः संवत्सरं संवत्सरादादित्यम् (छां. ५/१०/२) इत्यत्र संवत्सरलोकात्परस्ताद्वायुलोको निवेशयितव्यस्तथा २० च संवत्सरलोकाद्वायुलोकं गच्छतीत्यर्थः । तत्र विनिगमकमाह । अविशेषविशेषाभ्यामिति ।
अत्रेदं ज्ञेयम् । अग्निहोत्रादिकर्मभिश्वित्तशुद्धावुपासनादिभिर्ज्ञानोये क्रममुक्त्यधिकारी हि तत्तल्लोकं गत्वा भुक्त्वान्ते ब्रह्म प्राप्नोति । कर्म त्वग्निसाध्यं भूलोक एव च भवत्यत आदौ तत्रत्यो भोगस्ततस्तदुपरितन२० लोकानां—पृथिवीं दीक्षा तयाग्निदक्षया दीक्षित: । (तै. बा. ३।७।७ ) यया पृथिव्यग्निगर्भी (आ. सू. १।१३।५ ) इत्यादिश्रुतिभ्यो भूरनिप्रधाना भवत्यतोचिराख्यमग्मिलोकमादौ गच्छति ।