________________
अ. पा. 3 सू..]
अणुभाग्यम् ।
३३२
दनुपपत्तिपरिहारोनर्थकः । नन्वनेकपर्वविशिष्टत्वेन मार्गस्यैकत्वे तं निरूपयन्ती श्रुतिः क्वचित् किंचित् पर्व निरूपयति । क्वचिन्नेति कथम् । उपसंहारेण प्राप्स्यत इति तात्पर्येण तथेति चेद् ब्रवीषि तदा शाखान्तरमविदुषस्तदसंभवन तं प्रति श्रुतेन्यूनतापातः । न हि सर्व५ शाखाविदं प्रत्येव कथनमिति वक्तुमुचितम् । तस्यासंभवादतः स्वस्वशाखाज्ञानवन्तं प्रत्येव तथा । अध्ययनविधेरपि तावन्मात्रपरत्वात् । शाखान्तरसंवादिपर्वकथनानुपपत्तिश्च । उपसंहारेणैव तस्यापि प्राप्तिसंभवादतो विरुद्धदिक्कानां स्वस्वमार्गेणैकग्रामप्राप्तिवदिहापि भवितुमर्हति स्वात
त्र्येण सर्वैर्मागैर्ब्रह्मप्राप्तिः। न चैवमथैतयोः पथोरिति द्विवचनानुपप• तिर्जायस्व म्रियस्वेत्यस्य तृतीयत्वं चानुपपन्नमिति वाच्यम् । अचिरादि
कमुक्त्वोपसंहरत्येष देवयानः पन्था इति । श्रुत्यन्तरे च-स एनं देवयानं पन्थानमापद्यामिलोकमागच्छति ( कौ. १३) इति । तथा च ब्रह्मप्रापकाः सर्वे मार्गा देवयाना इत्युच्यन्ते । दैवी संपद्विमोक्षाय ( भ. गी.
१६।५) इति भगवद्वाक्याद् दैव्यां संपदि ये जातास्ते देवा इत्युच्यन्ते १५ तेषां यानं गमनं यत्रेति ते सर्वेपि मार्गा देवयानशब्देनोच्यन्ते। द्विती
यस्त्वविशिष्टः । एवं द्वित्वं त्रित्वं चोपपद्यते । न चोक्तरीत्या लाघवादेक एव स मन्तव्यः । स्वतः प्रमाणभूता हि श्रुतिः। सा येन यदा या श्रुता तदर्थावधारणे द्वितीयस्या अनुपस्थितत्वान्न लाघवगौरवतद्विचारावसरः । कचिदुपस्थितौ चोक्तबाधकैरुपसंहारानवकाशः । अपरं च ब्रह्मविदः २. क्रममुक्तौ गन्तव्यो मार्गो ह्ययमुपदिश्यते । तत्तल्लोके तदानन्दानुभवश्चाब
श्यकः । तथा चोपासनभेदात् फलभेदस्यावश्यकत्वान्मार्गभेदोपि तथेति सर्वेष्वेकरूपफलप्रसञ्जक उपसंहारो न युक्तः । किंच । उपासने कर्मणि चोपसंहारः संमतः । मार्गस्तु नान्यतररूपोतो यस्योपासकस्य येन मार्गेण गमनं स मार्ग उपदिश्यत इति नोपसंहारो युक्तः। अविधेयत्वादपि २५ तथा। एतद्यथा तथा पुरस्तानिरूपितम्-उपसंहारोाभेदाद्विधिशेषवत्समाने
च (ब. सू. ३॥१५) इत्यत्र । एवं सत्यर्चिश्शब्देनार्चिरुपलक्षितो मार्य उच्यते । आदिपदेनान्ये सर्वे मार्गाः संगृह्यन्त इति नानुपपत्तिः