________________
३३१
१ अर्चिराधधिकरणम् ।
[अ.
पा. सू. .
मुक्त्वाग्रे वदति । अथ यत्रैतदस्माच्छरीरादुत्क्रामत्यथैतैरेव रश्मिभिरूलमाक्रमते (छां. ८।६।५) इति नाडीरश्मिसंबन्धेनैका परलोकगतिः श्रूयते । अर्चिरादिका चान्या तेर्चिषमभिसंभवन्त्यर्चिषोहः । (छां. ५।१०१ ) इत्यादिश्रुत्युक्ता । स एनं देवयानं पन्थानमापद्यामि५ लोकमागच्छति ( कौ. १।३) इति चापरा । स यदा वै पुरुषोस्मालोकात्पैति स वायुमागच्छति ( बृ. ५।१०।१ ) इति चेतरा । सूर्यद्वारेण ते विरजाः प्रयान्ति ( मुं. १।२।१३) इति चान्या । एवमनेकेषु मार्गेषु सत्स्वर्चिरादेरेवोक्तिः कुत इति । तत्र सर्वेषां पारिभाषिकमर्चिरादित्वमत
एव-अथैतयोः पथोः कतरणचन (छां. ५।१०।८) इति मार्गद्वय१० भ्रष्टानामतिकष्टं-जायस्व म्रियस्वेति तृतीय स्थानम् ( छां. ५।१०।८)
इत्युक्तमन्यथानेकेषां मार्गाणामुक्तानां श्रूयमाणत्वादस्य तृतीयत्वं नोच्येतातः प्रकरणभेदाद्भिन्नोपासनमशेषत्वान्मिथोनपेक्षा । भिन्ना एवैते मार्गा ब्रह्मप्रापका इति मन्तव्यमिति चेत्तत्रोच्यते । न हीयं परिभाषा सर्वेष
श्रुतास्ति यतस्तथोच्येत । अतो लाघवादनेकपर्वविशिष्ट एक एव मार्ग १५ इति मन्तव्यं नतु पर्वभेदेन मार्गभेद इति । गौरवप्रसंगात् । न चैवमथै
तैरेव रश्मिभिरित्यवधारणानुपपत्तिरिति वाच्यम् । तस्याः श्रुतेरुत्क्रमणमात्रमार्गनिरूपकत्वात् । तथाहि । तत्रोपक्रमे हि-अथ यत्रैतदस्माच्छरीरादुत्तामत्यथैतैरेव रश्मिभिरूचं आक्रमते ( छां. ८।६।५) इत्युच्यते।
एतस्मात्पुरस्तात्-अथ या एता हृदयस्य नाड्यः ( छां. ८।६।१) २० इत्युपक्रम्य पिङ्गलस्यादित्यत्वमुक्त्वा-तद्यथा महापथ आतत उभौ ग्रामौ
गच्छतीमं चामुं चैवमेवैता आदित्यस्य रश्मय उभौ लोकौ गच्छन्तीमं चामुं चामुष्मादादित्यात् प्रतायन्ते ता आसु नाडीषु सृप्ता आभ्यो नाडीभ्यः प्रतायन्ते तेमुभिन्नादित्ये सृप्ता इत्यन्तेन वाक्येन नाडीषु
रश्मिप्रचारमुक्त्वाग्रे अथ यत्रैतदस्मादित्याद्युक्तम् । उपसंहारे च-शतं २५ चैका हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका । तयोर्ध्वमायन्नमृतत्व
मेति विष्वडेंन्या. उत्क्रमणे भवन्ति (छां. ८।६।६) इति । एवमुपक्रमोपसंहाराभ्यामुत्क्रमणमात्रमार्गनिरूपकत्वं न तु ब्रह्मप्रापकमार्गस्यातस्त